________________
तृतीयोऽङ्क]
[१३१ कुन्तल:- (उपसृत्य) देव ! अयं कीनाशः पुराध्यक्षः । कीनाश:- (प्रणम्य) एषोऽस्मि, प्रयच्छत कृत्यादेशम् । राजा- (सक्रोधं साक्षेपं च)
रे रे ! निस्त्रप ! रक्षकाधम ! मम प्राणप्रिया पू:प्रजा प्रेतेशप्रतिमेन सेयमनिशं स्तेनेन निष्पीड्यते । त्वं त्वादाय मदीयवेतनधनं प्रायोऽङ्गनासंगत
स्त्यक्त्वा नागररक्षणव्यतिकरं निद्रायसे रे ! सुखम् ॥२८॥ किञ्च- स्फूर्जनिष्कलनिष्कलगृह.... ग्रामाभिरामं पुरं
नित्यं निष्प्रतिरूपरूपमनुजद्वन्द्वैकलीलास्पदम् । नानादेशकसौख्यवाञ्छकवणिक्छ्रेणीनिवासाद्भुतं यत्तस्याप्यहितेन निन्दितदशा स्तेनेन तेने कथम् ? ॥२९॥
(कीनाशः सभयं तूष्णीमाते ।) अरे आरक्षक ! ध्रुवं किमिति किमपि न ब्रूषे ? । यदि वा ज्ञातम्, चौरारक्षकयोः समवाये सति स्तेयसंभवः । तद्भवानेव दण्डाहः ।
तदरे ! एनमेव कुरुत कुरुत पौरस्त्यं शूलाप्रोतम् । कीनाश:- देव ! 'रात्रिन्दिवं' (इत्य/क्ते सभयवाक्स्तम्भं राज्ञो मुखमीक्षते ।) वणिजः- (प्रणम्य) देव ! सर्वथात्रार्थे नायमपराध्यति । यतः सर्वत्राकृष्ट
करालकरवालकरनप्रकरपरिकरितः प्रतिद्वारं प्रतिपथं प्रतिकच्छप्रतिरोधकप्रवेशनिष्काशं समग्रामपि यामिनी जाग्रदूर्व एवास्ते । परं
परमानिलजङ्घालताजयी कश्चित्परास्कन्दी दृशामप्यगोचरचारः । कीनाशः- (किञ्चिद्धैर्यमालम्ब्य सविनयं) देव ! रात्रिन्दिवं न शयनं न च वल्लवाञ्छा
भोगाभिलाषुककला सकला प्रनष्टा । वैरीव वैरिणदृशा ह्यनिशं प्रकामं
संपश्यतः प्रतिकलं मम तस्करं तम् ॥३०॥
राजा
सपश्चत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org