________________
१३०]
धन:
श्रेष्ठी
राजा
-
राजा
-
सिंहल :- (सानुनयं) देव ! किमेवमेतैर्वाक्यैरिष्टतातिर्देवस्वान्तं नितान्तं दुःखोपद्रुतं करोति । यतोऽनेकशः पुरारक्षैरहर्निशं सबाह्याभ्यन्तरं पुरं रक्ष्यते ।
राजा
[ प्रबुद्ध रौहिणेय नाटक प्रबन्धः
अथ किम् ? |
किञ्च देव ! केषांचिद्धनानि, केषाञ्चिदश्वाः, केषांचिद्वनिताः, केषाञ्चिदपत्या..... ( नि । एवं ) सर्वमप्यहर्निशमपह्रियते । तत्कियद्विज्ञप्यते ? ।
-
निर्नाथं क्षितिमण्डलं मुकुलितं क्षात्रं महः पौर्वजी न्यायप्रौढिरपह्नुता तदखिलं सत्त्वं गतं दूरतः । दौर्जन्यं तदतः परं प्रकटितं सौजन्यमस्तं यतो जज्ञे मय्यनुशासति प्रतिपथं दूरापदामास्पदम् ॥२५॥
(विचिन्त्य) अरे ! शीघ्रमाकारय तं दुरात्मानमारक्षकम् । कुन्तल:- एष शीघ्रमाकारयामि । ( इति निष्क्रान्तः । )
राजा
(सेयं) अरे! यद्यसौ पुरप्रयत्नपारतन्त्र्यं नावहति तत्कथमीदृगवस्थां प्राप्नुवन्ति पौराः ? ।
( सिंहलः सवैलक्ष्यं तूष्णीमास्ते ।)
अजननिर्वरं तस्य जातस्याजननिर्वरम् । प्राणप्रिया प्रजा यस्य पश्यतः पीड्यते परैः ॥२६॥ ( पुन: क्षणं विमृश्य सशिरःकम्पं )
निर्नष्टं सह पौरसौख्यनिवहैर्मत्पौरुषं निष्ठिता सत्कीर्तिः : सममाज्ञयाथ विगताः सर्वे गुणाः शर्मणा । कौलीनेन समं परं प्रसरिताः सर्वत्र दुर्नीतयः शश्वद्दुःखभरेण सार्धमधुना सोऽहं पुनः प्राणिमि ॥२७॥
भवतु तावत्, आगच्छतु पुराध्यक्षः ।
Jain Education International
(ततः प्रविशति कीनाशः कुन्तलश्च ।)
For Private & Personal Use Only
www.jainelibrary.org