SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ राजा तृतीयोऽङ्कः] [१२८ कुन्तल:- श्रेष्ठिन् ! परदुःखसंक्रान्तिदर्पणः कोऽपि देवस्य मानसोत्साहः । कतिपये चैवंरूपाः पुमांसः? । यतःशूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः स्मेरश्रीपतयो निरस्तधनदास्तेऽपि क्षितौ लक्षशः । किन्त्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखादितं यन्मनस्ताद्रूप्यं प्रतिपद्यते कलियुगे ते पञ्चषाः पौ( पूरुषाः ॥२२॥ तद्विज्ञप्यतां निर्विवादं लब्धजयवादानां देवपादानां पुरः । श्रेष्ठिन् ! यदि न सत्यमावेदयसि तदस्माकं शपथैः प्राप्तोऽसि । श्रेष्ठी देव ! निःसंख्यद्रविणोच्चवृक्षनिचयै रोचिष्णुरुच्चैर्मुहुः सानन्दैस्तव दृष्टिदानसलिलैराढ्यम्भविष्णुर्भृशम् । उद्वाहादिमहःप्रसूनसुभगो भोगप्ररोहत्फलो दग्धश्चौरहिमेन पौरमलयो निन्द्यां दशां लम्भितः ॥२३॥ राजा कथमैकागारिकः कश्चिद्भवद्विभूतिमुपद्रवति ? । श्रेष्ठी- एकः कश्चिदकान्दिशीकहृदयः क्रूरः समीरोमिवत् सर्वत्रास्खलितः स्वके गृह इव स्वैरं पुरे बम्भ्रमन् । वामाक्षीविणानि निष्कनिचयान् सल्लक्षणानङ्गजा नश्रान्तं समवर्तिवद्वयपहरत्यागःकरस्तस्करः ॥२४॥ राजा कि मानुषानप्यपहरति ? । देव ! तस्करापसदस्य किमेकं विज्ञपयामि ? । स तस्करोऽद्य रात्रौ मत्पुत्रपाणिपीडनोत्सवे प्रवृद्धरसानुबन्धे मदृहिणीकपटनेपथ्येन नवपरिणीतसुतमपहृतवान् । राजा- (सक्रोध) पश्यताहो ! तस्य दाण्डपाशिकस्य पुररक्षालस्यम् । श्रेष्ठी- देव ! अन्यच्च मधुपर्वणि धनसार्थवाहदुहिता क्रीडन्ती वनादपहता । राजा- (धनं प्रति) सार्थपते ! कथं भवदुहिता चौरेणापहृता ? । श्रेष्ठी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy