________________
१२८]
राजा
श्रेष्ठी
[ प्रबुद्ध रौहिणेय नाटक प्रबन्धः (सप्रश्रयं) अहह श्रेष्ठिन् ! किमिदमभिदधासि ?, राज्येऽस्मिन्मम नीतिधाम्नि भवतां वित्तानि मुष्णाति यः स्त्रीणां विप्लवमातनोति मदनेनान्धम्भविष्णुर्भृशम् । दौर्जन्यं जनयत्यपहृतनयो मात्सर्यचर्याचणः पुत्रेणापि न कार्यमार्यचरितप्रध्वंसिना तेन मे ॥१७॥ तद्विज्ञप्यतां किमागमनप्रयोजनम् ? । (सदुःखं) देव ! किं विज्ञपयामि ?, न्यायेनापसृतं जनैविधुरितं पापोत्करेणोच्छृतं पुण्यैः प्रव्रजितं गुणैर्विगलितं धर्मेण दूरे स्थितम् । दुःखैरुल्लसितं श्रिया मुकुलितं भोगैः प्रसुप्तं यतो निश्चिन्तैः प्रतिवासरं नृपति[
भिर्बोभुज्य सोषुप्यते ॥१८॥ तस्माद्देव ! किं बहुनोक्तेन ?, तत्किञ्चिद्दर्शयास्माकं प्रौढं दुर्गनगादिकम् । यत्राशेषजनोपेताः पालयामः स्वजीवितम् ॥१९॥ (सोद्वेगं) यदि भवतामप्युच्चैः पीडा व्रीडाकरी समजनिष्ट । तर्हि किमनेन वपुषा राज्येन धनेन यशसा च ? ॥२०॥ तत्किमन्याभिर्वाचोयुक्तिभिः, विज्ञप्यतां यथावस्थितम् । देव ! श्रूयताम् । (इत्य|क्ते समन्युस्तम्भं मौनमालम्बते ।) (सदुःखं) अहह ! धिगहो ! ममैतत्पौरुषमखिलं बलं प्रभुत्वं च । रङ्कस्येव जनोऽयं परैः पराभूयते यस्य ॥२१॥ (पुनः सप्रश्रयं) श्रेष्ठिन् ! किमत्र मन्युस्तम्भसंरम्भेणास्मन्मनसि संतापावापः संपाद्यते ?, कथ्यतां यथावस्थितं येन तदौचित्यमाचरामः ।
राजा
श्रेष्ठी
राजा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org