SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ राजा राजा तृतीयोऽङ्क] [१२७ (ततः प्रविशन्ति सिंहल (कुन्तल) निदिश्यमानमार्गाः कृतोष्णीका विहितयथोचितनेपथ्याः करकमलोल्लसदसमोपायना वणिजः ।) कुन्तलः- (सविनयं) देव ! अयं सुभद्रश्रेष्ठी, अयं तु धनसार्थवाहः, एते च सुधनादयो देवपादान् प्रणमन्ति । (ससंभ्रमं) अरे राङ्गुल ! आसनान्युपनय । (प्रविश्योभयकक्षकृतासनः) रावलः- (क) एदाई आसणाई (इति यथाक्रममासनान्युपनयति ।) (वणिजो ढौकितोपायना राजानां प्रणम्य यथाक्रममुपविशन्ति ।) (वणिजां प्रति सप्रश्रयं) तैस्तैः पुण्यैः समुदितमितः श्रीविलासैः प्रविष्टं सत्कल्याणैर्विलसितमहो ! सद्गुणैः सन्निकृष्टम् । स्निग्धप्रीतिप्रभृतहृदयैः पूर्वजैश्चाद्य दृष्टं यन्मत्पर्षत्क्षितितलमलञ्चक्रिरे श्रेष्ठिमुख्याः ॥१४॥ श्रेष्ठी- अहो ! देवस्य सर्वजनीनः कोऽपि वाक्यविन्यासः । बन्दी- (वणिजः प्रति) तत्पुण्यं प्रकटं स्थितं स भवतामद्य प्रसन्नो विधिः सा गौः कामदुघाऽनघा गृहमगात्तुष्टः स कल्पद्रुमः । चिन्तारत्नमहर्निशं करगतं स्थैर्यं गतास्ताः श्रियो दृष्टा यूयममन्दसंम[दाजुषा देवेन यच्चक्षुषा ॥१५॥ श्रेष्ठी- देव ! एवमेतत्, यथा बन्दिराजो व्याजहार । वाञ्छाम उल्बणतमां न स्मां न भोगान् शीतांशुरश्मिरुचिरं न चिरं यशश्च । व्यालुप्तसर्वविभवा अपि धारयाम चेज्जीवितं किमियता नरनाथ! नाप्तम् ? ॥१६॥ (क) एतानि आसनानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy