Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy
View full book text
________________
चतुर्थोऽङ्कः ]
सुमुख:- ( सहर्षमुच्चैःस्वरं) वर्धसे देव ! वर्धसे, वन्दारुत्रिदशेन्द्रमौलिविलसन्मन्दारपुष्पोत्करप्रोन्मीलन्मकरन्दबिन्दुनिवहस्त्रातांहिपङ्केरुहः । त्रैलोक्यं समलंकरिष्णुरशुभं जिष्णुर्जिनग्रामणीः श्रीवीरः समवासरत्पुरबहिर्देवाधिदेवः प्रभुः ॥ ३९ ॥
राजा
(सहर्षं) कथं वर्धमानस्वामी भगवान् मनोरमोद्यानभुवमलंकृतवान्? | तगृहाणैतत्पारितोषिकम् । ( इति तस्मै सर्वाङ्गीणाभरण[जात]मुपनयति । कुन्तलं प्रति) कार्यतां पटहप्रदानेन समस्तपुरशोभाः, प्रगुण्यतामगण्या स्नानविधिः आनीयन्तामग्रपूजोपचारसामग्यः । (अभयं प्रति) अमात्य ! सांप्रतप्रतिपन्नेऽर्थे प्रयत्नपरेण भाव्यम् । (वणिजः प्रति) व्रजत यूयं स्वस्वावसथेषु, अस्मिन्नर्थे न काचिच्चिन्ता विधेया । आरक्षक ! त्वमपि स्वनियोगमनुतिष्ठ । वयमपि श्रीवर्धमानस्वामिनं देवाधिदेवमष्टमहाप्रातिहार्य चतुर्विंशत्य (श्चतुस्त्रिंशद) तिशयपरिकलितमाराधयितुं समीहितं साधयामः ।
( इति निष्क्रान्ताः सर्वे 1)
॥ तृतीयोऽङ्कः समाप्तः ॥
,
॥ अथ चतुर्थोऽङ्कः ॥
(ततः प्रविशति वञ्जुलः कपिञ्जलश्च)
Jain Education International
[ १३५
कपिञ्जलः- ततस्तत: ? ।
वञ्जुल:- तदनन्तरं महामात्यः सर्वतस्तं दिनत्रयं यावदवलोकयामास ।
कपिञ्जल:- कुत्र कुत्रावलोकित: ? ।
वञ्जुल:
(सनिर्वेदं) यद्यकस्मिन् कस्मिंश्चित्स्थानेऽवलोकितो भवति
तत्कथ्यते ।
For Private & Personal Use Only.
-
www.jainelibrary.org
Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206