Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 169
________________ १३२] [प्रबुद्ध रौहिणेय नाटक प्रबन्धः किञ्च- रात्रौ यत्र कपाटसम्पुटखटत्कारोऽपि हक्काध्वनिः पूत्कारप्रसरः परः कलकलो हाहेति चाक्रन्दितम् । प्राकारे विशिखामुखे नृपपथे शृङ्गाटके चत्वरेऽगच्छं तत्र न तस्करं परमहं पश्यामि पश्यन्नपि ॥ तस्माद्देव ! यः कश्चिदलम्भूष्णुः पुरारक्षायां समर्प्यतां तस्मै स्वकां दाण्डपाशिकताम् । (इति डङ्गामुपनयति ।) सिंहल:- (नेपथ्याभिमुखमालोक्य सहर्ष) कथमयमभयकुमारः सचिवाग्रणी: समेति ? । विध्यातं तर्हि देवकोपानलेन । (ततः प्रविशति मुद्रालङ्कतकरोऽभयकुमारः ।) सिंहल:-. (ससंभ्रमं) इत इतो महामात्यः । (पुनर्नृपं प्रति) देव ! सचिवपुङ्गवः प्रणमति । (राजा सक्रोधमनाकर्णितकेनास्ते ।) अभयकुमार:- (नृपं प्रणम्य यथास्थानसुपविशति । राजानमवलोक्य स्वगतं) कथमद्य महाराजो मां न संभावयत्यालापप्रदानेन ?, आलोकमात्रेणापि न प्रसादपात्रीकुरुते । तन्नूनमन्तः क्वापि कलितकोपाटोप इव संलक्ष्यते। तथाहिदृष्टः कः स्फुटरोषभीषणफणाटोपेन शेषाहिना ? कालस्य क्रकचोपमप्रविलसदंष्ट्रे मुखे कोऽविशत् ? । अन्तर्विस्फुरदुग्रकोपघटितभ्रूक्षेपभीष्माकृतिईप्तारिस्मयसंचयव्ययकरो यस्मै चुकोप प्रभुः ॥३२॥ तथा चायं वणिग्जनः, अयं च पुरारक्षः, तन्नियतं भाव्यं केनापि हेतुना । (प्रकाशं सिंहलं प्रति अपवार्य) सिंहल ! किमेवं देवः कोपावेशवशंगतः ? । किमर्थे चामी वणिजः समाहूताः ? । किमयं कीनाशः सभय एवास्ते ? । (सिंहलो मन्त्रिणः कर्णे एवमेव ।) अभयः- (सशिरःकम्पं) आः ! ज्ञातम् । (पुनः क्षणं विमृश्य नृपं प्रति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206