Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy
View full book text
________________
राजा
तृतीयोऽङ्कः]
[१२८ कुन्तल:- श्रेष्ठिन् ! परदुःखसंक्रान्तिदर्पणः कोऽपि देवस्य मानसोत्साहः ।
कतिपये चैवंरूपाः पुमांसः? । यतःशूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः स्मेरश्रीपतयो निरस्तधनदास्तेऽपि क्षितौ लक्षशः । किन्त्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखादितं यन्मनस्ताद्रूप्यं प्रतिपद्यते कलियुगे ते पञ्चषाः पौ( पूरुषाः ॥२२॥ तद्विज्ञप्यतां निर्विवादं लब्धजयवादानां देवपादानां पुरः ।
श्रेष्ठिन् ! यदि न सत्यमावेदयसि तदस्माकं शपथैः प्राप्तोऽसि । श्रेष्ठी
देव ! निःसंख्यद्रविणोच्चवृक्षनिचयै रोचिष्णुरुच्चैर्मुहुः सानन्दैस्तव दृष्टिदानसलिलैराढ्यम्भविष्णुर्भृशम् । उद्वाहादिमहःप्रसूनसुभगो भोगप्ररोहत्फलो
दग्धश्चौरहिमेन पौरमलयो निन्द्यां दशां लम्भितः ॥२३॥ राजा
कथमैकागारिकः कश्चिद्भवद्विभूतिमुपद्रवति ? । श्रेष्ठी- एकः कश्चिदकान्दिशीकहृदयः क्रूरः समीरोमिवत्
सर्वत्रास्खलितः स्वके गृह इव स्वैरं पुरे बम्भ्रमन् । वामाक्षीविणानि निष्कनिचयान् सल्लक्षणानङ्गजा
नश्रान्तं समवर्तिवद्वयपहरत्यागःकरस्तस्करः ॥२४॥ राजा
कि मानुषानप्यपहरति ? । देव ! तस्करापसदस्य किमेकं विज्ञपयामि ? । स तस्करोऽद्य रात्रौ मत्पुत्रपाणिपीडनोत्सवे प्रवृद्धरसानुबन्धे मदृहिणीकपटनेपथ्येन
नवपरिणीतसुतमपहृतवान् । राजा- (सक्रोध) पश्यताहो ! तस्य दाण्डपाशिकस्य पुररक्षालस्यम् । श्रेष्ठी- देव ! अन्यच्च मधुपर्वणि धनसार्थवाहदुहिता क्रीडन्ती वनादपहता । राजा- (धनं प्रति) सार्थपते ! कथं भवदुहिता चौरेणापहृता ? ।
श्रेष्ठी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e170ade7d30e9274be919c0487df7c107c4554d5de3c84961bb3ba9b307e9004.jpg)
Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206