SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः ] रौहिणेयः - कथं समागत एव श्रेष्ठिसुत: ? । (ततः प्रविशति तूर्यरवापूरितदिगन्तरालः पतिपत्नीजनसन्मङ्गलोपगीयमानः सर्वाङ्गीणाभरणभूषितः सदशाव्यङ्गवस्त्रावृतः शिरःशिखरोपशोभितोऽश्वाधिरूढो ध्रियमाणमयूरातपत्रः सवधूको वर उभयस्वजनवर्गश्च ।) रौहिणेयः- अयं तावद्वरः, इयं चास्य वधूः । कौ पुनरस्य पितरौ ? | शबर:- (क) अयं थूलपलंबशलीले सुभद्दाभिहाणे जनगे । इयं च सव्वंगीनप्पसाहनप्पसाधिदा कुंकुमच्छविदभालष्टा मनोलमा मादा । (इति दृष्टिसंज्ञया दर्शयति ।) रौहिणेयः- किमभिधानः सुतः ? । (ख) मनोलथो नाम । शबर: रौहिणेयः - ( वरं विलोक्य) किञ्च (नेपथ्ये कलकलस्तूर्यमङ्गलध्वनिश्च) (क) (ख) [ १०८ आकारः स्मरसोदरः शशभृता वक्त्रप्रभा स्पर्धते नीलाम्भोजविजिष्णुनी च नयने कण्ठोऽस्य कम्बुच्छविः । वाच: स्निग्ध[सुधा ] स्मयव्ययकृतः पादौ प्रवालप्रभौ वर्णः स्वर्णसवर्णविभ्रमकरः किं वर्ण्यतेऽयं वरः ? ॥३॥ मौलौ यस्य प्रशस्यस्तिरयति तिमिरं शेखरः स्वर्णभाभिः कण्ठे मुक्ताकलापः किरति दितिगुरोर्मण्डलज्योतिरुच्चैः । प्रातस्त्यादित्यलक्ष्मी क्षिपति मणिरुचा हस्तसूत्रं च हस्ते देहे वस्त्रं क्षिणोति प्रसृमरमहसा कौमुदीं कान्तकान्तिम् ॥४॥ Jain Education International अयं स्थूलप्रलम्बशरीरः सुभद्राभिधानो जनकः । इयं च सर्वाङ्गीणप्रसाधनप्रसाधिता कुङ्कुमाक्षविदर्भालष्टा (कुङ्कुमलिप्त भालस्थला) मनोरमा माता। मनोरथो नाम । For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy