________________
११०]
[प्रबुद्ध रौहिणेय नाटक प्रबन्धः नूनं तदेनं प्राणात्ययेऽप्यपहरिष्ये । यतः प्रभूतप्रसाधनाढ्यम्भविष्णुः ।
न शक्यन्ते चास्यापहारं विना अलङ्कारा आकलयितुम् । श्रेष्ठी- (सर्वतोऽवलोक्य सरोमाञ्चं) अहो ! मदङ्गजस्य भाग्यसौभाग्या
भ्युदयः । यदि वापश्यन्त्येते यदखिलजना मत्सुतं सद्वधूकं बद्धस्पर्धं प्रकटकुतुकस्फारचक्षुर्विलासाः । तत्कि भाग्याभ्युदयपदवीं सोऽहमद्याधिरूढः ? किं वा पुत्रः प्रसभसुभगम्भावुकाभङ्गभाग्यः ? ॥५॥
(रत्नाङ्गदं प्रति) अरे रत्नाङ्गद ! समागताः कि वयं द्वारि ? । रत्नाङ्गदः- देव !
पृष्ठब्राह्मणपुण्यवाक्यमिव यद्दत्ताद्भुतस्वस्तिकं चञ्चल्लक्षणशास्त्रनिर्मितमिव स्फूर्जच्चतुष्काञ्चितम् । लीलोद्यानमिव प्रभूतसुमनोमालाविलासोज्ज्वलं पश्य स्वस्य निशान्तमेतदसमश्रीविभ्रमभ्राजितम् ॥६॥ रत्नाङ्गद ! समादिशास्मदाज्ञयैतान् गन्धर्वकान्, यावत्प्रवेशमुहूर्तमभ्येति तावत्कुरुतास्मदृहद्वारि वर्धापनकोत्सवम् ।
(नेपथ्ये गीतध्वनिः ।) रत्नाङ्गदः - स्वामिन् ! न युज्यते विलम्बः कर्तुम्, यतो बह्वपायानि श्रेयांसि ।
ततो गृहमध्य एव कारयिष्यामो वर्धापनकोत्सवम् । श्रेष्ठी- (साक्षेप) किमर्थम् ? । रत्नाङ्गदः- किं न श्रुतं भवद्भिर्दक्षिणस्यां दिशि क्षुतम् ? । श्रेष्ठी- श्लेष्मविकारा अपि यद्यस्मदारम्भाणां भङ्गमाधास्यन्ति तत्कथं दुर्जनानपाकरिष्यामः ? तत्कारय यथादिष्टम् ।
(रत्नाङ्गदस्तथा कारयति ।) रौहिणेयः- (शबरं प्रति साश्चर्य) पश्याहो ! पश्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org