SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १०८] [ रौहिणेयः - ] किं किमीक्षितं भवता ? शबर:- (क) अज्ज एगे महद्धियशेट्ठपुत्ते एगंमि धणड्डूगेहंमि वीवाहिदे लत्तीए सगिहं गमिस्सति, तदो तत्थ गन्तव्वं । रौहिणेयः- ( विलोक्य सस्मितं ) अहो ! निजरूपानुरूपं विदूषकरूपं प्रतिपन्नवानसि । अहं तु तत्रैव गतः सचीरिकासर्पं यथासमयोचितं नेपथ्यमाधास्ये । (ऊर्ध्वमवलोक्य) [ प्रबुद्ध रौहिणेय नाटक प्रबन्धः शबर: (क) (ततः प्रविशति रौहिणेयः शबरच ।) (ख) (ग) शूचीभेद्यतमिश्रकुण्डलिकुलं विश्वाशनव्याकुलं नीत्वा भासमशेषविश्वविजयी भ्रान्त्वा च विश्वं वियत् । नूनं श्रीप इवाधुना विधुरयन्नम्भोजिनीं सर्वतः कर्तुं स्नानमितो जगाम चरमाम्भोधिं ग्रहग्रामणीः ॥ १ ॥ विस्तृतं च सर्वतस्तमस्तोमवीचीभिः । तथाहि रौहिणेयः - अरे ! कियद्दूरेऽद्यापि तद्गृहम् ? | शबर: आरामैः कमठायितं गुरुगृहैः पोतायितं मेदुरक्ष्माभृद्धिर्जलकुञ्जरायितमुडुव्यूहेन मत्स्यायितम् । वातोद्धूतसमुद्धरध्वजपटैः सर्पायितं स्वैरिणीश्रेणीभिर्जलमानुषीयितमहो ! नैशान्धकाराम्बुधौ ॥२॥ सांप्रतं समयः परपुरप्रवेशस्य, तदेहि पुरं प्रविशावः । ( इत्युभौ पुरप्रवेशं नाटयतः 1) ( विलोक्य) (ख) समागदा [संप] दं, पवेसं पिच्छ । (एवं दृष्टिसंज्ञया दर्शयति 1 ) रौहिणेयः- यदि तदेतन्महर्द्धिकगृहं तत्कथं न कोऽपि क्वापि दृश्यते ? | Jain Education International (ग) सयलेऽवि लोए वीवाहंमि गदे संपदं समागमिस्सदि । अद्यैको महद्धिक श्रेष्ठपुत्रः एकस्मिन् धनाढ्यगेहे विवाहितो रात्रौ स्वगृहं गमिष्यति, ततस्तत्र गन्तव्यम् । समागतौ सांप्रतं, प्रवेशं पश्य । सकलोऽपि लोको विवाहे गतः सांप्रतं समागमिष्यति । For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy