Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan

View full book text
Previous | Next

Page 646
________________ पाणिनिसूलव्याख्या २००० । पष्ठ्या रूम्य च । (५. ३.५४ ) षष्ठ्यन्ताद् भूतपूर्वेऽर्थे रूप्यः स्याच्चरट् च । कृष्णस्य भृतपूर्वो कृष्णरूप्यः कृष्णचरः गौः । तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत् । शुभ्रारूप्यः । शुभ्रायाः भूतपूर्वः ६३० २००१ | अतिशायने तमविष्ठनौ । ( ५.३ ५५ ) अयमेषामतिशयेन आढ्यः आढ्यतमः । लघुतमो । लधिष्ठः । अस्मिन्नेव ग्रन्थे 900, अतिशयेन प्रिया प्रियतमा । तमप् । ' तसिलादिप्वा' (सू. 886 ) इति पुंवद्भावः । २००२ | विश्व | ( ५.३.५६ ) तिङन्तादतिशये द्योत्ये तमप् स्यात् । माघे - 1. 36. लघुकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः । उदृढ लोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥ 1839 ॥ क्रियतेतराम् अतिशयेन क्रियते । ' द्विवचन ' ( सू. 2005 ) इति तर । ' किमेत्तिङ् ' ( सू. 2004 ) इत्यामुप्रत्ययः । अनर्घराघवे -- I. 23. नमन्नृपतिमण्डलीमुकुर चन्द्रिका दुर्दिनस्फुरच्चरणपल्लवप्रतिपदोक्त दोस्तम्पदा । अनेन ससृजेतरां तुरगमेघमुक्तभ्रमतुरङ्गखुरचन्द्रकप्रकरदन्तुरा मेदिनी ॥ 1840 || ससृजेतरां अतिशयेन सृष्टा । पूर्ववत्तरप् । आमुः माघे—XIV. 42. यं लघुन्यपि लघुकृताहितः शिष्यभूतमशिषत्स कर्मणि । सस्पृहं नृपतिभिर्नृपोऽपरैर्गौरवेण ददृशेतरामसौ || 1841 ||

Loading...

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695