Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan

View full book text
Previous | Next

Page 658
________________ पाणिनिसूत्रव्याख्या भट्टिकाव्ये-III. 3. आदिक्षदादीप्तकृशानुकल्पं सिंहासनं तस्य सपादपीठम् । सन्तप्तचामीकरवल्गुवजं विभागविन्यस्तमहारत्नम् ॥ 1871 ।। आदीप्तकृशानुकल्पम् । अस्मिन्नेव ग्रन्थे श्लो 36. ईषदसमाप्ता प्रभाता प्रभातकल्पा । ' तसिलादि' (सू. 836 ) इति प्रभातशब्दस्य पुंवद्भावः । अस्मिन्नेव ग्रन्थे श्लो० 155. ईषदसमाप्तां पाशी पाशीकल्पाम् । 'बह्वादिभ्यश्च' (म. 503) इति विकल्पादीकारः । अभाषितपुंस्कत्वात् 'घरूप' (सू. 985) इत्यादिना हखो न भवति । माघे-XVI. 18. अतिकोमलमेकतोऽन्यतः सरसाम्भोरुहवृत्तकर्कशम् । वहति स्फुटमेकमेव ते वचन शाकपलाशदेश्यताम् ।। 1872 ।। ईषदसमाप्त शाकपलाश शाकपलाशदेश्यम् । देश्यप्रत्ययः । अस्मिन्नेव ग्रन्थे ग• 1607. अग्निदेश्यमग्निकल्पम् । देश्यप्रत्ययः । अस्मिन्नेव ग्रन्थे श्लो. '741. षड्वर्षाणि भूतः षड्वर्षः । तद्धितार्थ (सु. 728) इति समासः । 'तमधीष्टो' (सू. 1744) इति तद्वितस्य लुक् । ईषदसमाप्तः षड्वर्षः षड्वर्षदेशीयः । अनेन देशीयप्रत्ययः । २०२३ । विभाषा सुपो बहुच् पुरस्तात्तु । (५. ३. ६८) ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताबहुज्वा स्यात् । स च प्रागेव न तु परतः । ईषदूनः पटुः बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् । ___ माधे-~-II. 50. स्वयं प्रणमतेऽस्पेऽपि परवायावुपेयुषि । निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥ 1873 ।।

Loading...

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695