________________
पाणिनिसूत्रव्याख्या
भट्टिकाव्ये-III. 3.
आदिक्षदादीप्तकृशानुकल्पं सिंहासनं तस्य सपादपीठम् ।
सन्तप्तचामीकरवल्गुवजं विभागविन्यस्तमहारत्नम् ॥ 1871 ।। आदीप्तकृशानुकल्पम् ।
अस्मिन्नेव ग्रन्थे श्लो 36. ईषदसमाप्ता प्रभाता प्रभातकल्पा । ' तसिलादि' (सू. 836 ) इति प्रभातशब्दस्य पुंवद्भावः ।
अस्मिन्नेव ग्रन्थे श्लो० 155. ईषदसमाप्तां पाशी पाशीकल्पाम् । 'बह्वादिभ्यश्च' (म. 503) इति विकल्पादीकारः । अभाषितपुंस्कत्वात् 'घरूप' (सू. 985) इत्यादिना हखो न भवति ।
माघे-XVI. 18.
अतिकोमलमेकतोऽन्यतः सरसाम्भोरुहवृत्तकर्कशम् ।
वहति स्फुटमेकमेव ते वचन शाकपलाशदेश्यताम् ।। 1872 ।। ईषदसमाप्त शाकपलाश शाकपलाशदेश्यम् । देश्यप्रत्ययः । अस्मिन्नेव ग्रन्थे ग• 1607. अग्निदेश्यमग्निकल्पम् । देश्यप्रत्ययः ।
अस्मिन्नेव ग्रन्थे श्लो. '741. षड्वर्षाणि भूतः षड्वर्षः । तद्धितार्थ (सु. 728) इति समासः । 'तमधीष्टो' (सू. 1744) इति तद्वितस्य लुक् । ईषदसमाप्तः षड्वर्षः षड्वर्षदेशीयः । अनेन देशीयप्रत्ययः ।
२०२३ । विभाषा सुपो बहुच् पुरस्तात्तु । (५. ३. ६८)
ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताबहुज्वा स्यात् । स च प्रागेव न तु परतः । ईषदूनः पटुः बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् ।
___ माधे-~-II. 50.
स्वयं प्रणमतेऽस्पेऽपि परवायावुपेयुषि । निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥ 1873 ।।