Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan
View full book text
________________
६६८.
पाणिनिसूनव्याख्या २१३६ । शूलात्पाके । (५. ४. ६५) शूला करोति मांसम् । शूलेन पचतीत्यर्थः ।।
२१३७ । सत्यादशपथे। ( ५. ४. ६६) सत्या करोति भाण्ड वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं करोति विप्रः।
अनर्घराघवे--VI. 32.
अगस्त्याज्ञासद्यःशमितविपुलोच्छ्रायविषमा.
नुदस्यन्तस्सेतावलगितवतो विन्ध्यशिखरान् । शिरःसङ्ख्यासत्याकृतदशमुखालोकरभसा
दुपेत्यातित्रस्ताश्चपलमपसर्पन्ति कपयः ।। 1933 । सत्याकृतो ज्ञातः । डान् ।
२१३८ । मद्रात्परिवापणे। (५. ४.६७) मद्रशब्दो मङ्गलार्थः । परिवापणं मुण्डनम् । मद्रा करोति । माङ्गत्यमुण्डनेन संस्करोतीत्यर्थः ।
वा० । भद्राचेति वक्तव्यम् । ( 3344.)
भद्रा करोति । अर्थः प्राग्वत् । परिवापणे किम् । मद्रं करोति ।
॥ इति स्वार्थिकप्रकरणम् ॥
॥ इति तद्धितप्रक्रिया समाप्ता ।।

Page Navigation
1 ... 682 683 684 685 686 687 688 689 690 691 692 693 694 695