Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan

View full book text
Previous | Next

Page 690
________________ पाणिनिव्याख्या ६७४ तस्य परस्मैपद्सम्बंधी हिरादेश: ' क्रियासमभिहारे च' इति द्विर्वचनम् । पुनन्नित्यनु प्रयोगः । अस्मिन्नेव ग्रन्थे श्लो० 1087. वसुन्धरे ! त्वं धत्स्व धत्स्वेति अहं पुनः पुनर्दधे भृशं वा दध इत्येवमभिप्राया जगन्ति दधती । पूर्ववल्लोट् । तस्यात्मनेपदसम्बन्धी स्वादेशः । पूर्ववद्दिर्वचनम् । पूर्ववदनुप्रयोगः । b अस्मिन्नेव ग्रन्ये लो० 1722. उदन्वानुदधिर्निशाचरी च अन्योन्यं अन्योन्यस्येत्यर्थः । ' कर्मव्यतिहारे' इति द्वित्वम् । 'समासवच्च बहुलम्' इति बहुलग्रहणाद्यदा न समासक्ता तदा पूर्वपदस्य प्रथमैकवचनम् उत्तरपदस्याम्भावः । वा० । स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तराम्भावो वक्तव्यः । (4701 . ) कर्मव्यतिहारे आत्मनेपदस्य ' इतरेतर ' ( सु. 2682 ) इति प्रतिषेधः । माघे – XVIII. 32. अन्योऽन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैर्भुग्नवालाः । उन्मूर्धानस्सन्निपत्यापरान्तैः इति निपातः । प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ॥ 1947 ॥ अन्योऽन्येषां परस्परेषाम् । कर्मव्यतिहार इति द्वित्वम् । समासवच्चेति 'विकल्पादसमासपक्षे पूर्वपदस्य प्रथमैकवचनम् । ' इतरेतरान्योन्य' ( सू. 2682) इत्यात्मनेपदप्रतिषेधः । २१४८ । अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् । ( ८. १. १३ ) प्रियप्रियेण ददाति प्रियेण वा । सुखमुखेन ददाति सुखेन वा । अतिप्रियम चस्त्वनायासेन ददातीत्यर्थः । २१४९ । यथास्वे यथायथम् । ( ८.१.१४ )

Loading...

Page Navigation
1 ... 688 689 690 691 692 693 694 695