Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan
View full book text
________________
६७२
पाणिनिसूत्रव्याख्या २१४३ । वाक्यादेशमन्त्रितस्यास्यासम्मतिकोपकुत्सनभर्सनेषु ।
(८. १.८)
असूयायाम् , सुन्दर सुन्दर वृथा ते सौन्दर्यम् । संमतौ, देव देव वन्द्योऽसि । कोपे, दुर्विनीत दुर्विनीत इदानीं ज्ञास्यति । कुत्सने, धानुष्क धानुष्क वृथा ते धनुः । भर्सने, चोर चोर घातयिष्यामि त्वाम् ।
२१४४ । एक बहुव्रीहिवत् । ( ८. १. ९) द्विरुक्त एकशब्दो बहुव्रीहिवत्स्यात् । एकैकमक्षरम् । भट्टिकाव्ये-XIV. 29.
कोट्या कोट्या पुरद्वारमेकैकं रुरुधे द्विषाम् ।
ट्त्रिंशद्धरिकोट्यश्च निवदुर्वानराधिपम् ।। 1942 ।। __ अस्मिन्नेव ग्रन्थे श्लो० 504. एकैकस्मिन्नहनि । एकमेकमित्यत्र बहु-. व्रीहिवन्न ।
२१४७ । प्रकारे गुणवचनस्य । (८. १. १२)
सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच्च कर्मधारयवत् । पटुपट्टी । पटुपटुः । पटुसदृशः । ईषत्पटुरिति यावत् । शुक्लशुक्लं रूपम् । शुक्लशुक्ल: पटः ।
वा० । संभ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः । (5056.) सर्पः सर्पः बुध्यस्व बुध्यस्व । सर्पः सर्पः सर्पः बुध्यस्ख बुध्यख बुध्यस्व ।
वा । क्रियासमभिहारे च । ( 4665.) लुनीहि लुनीहीत्येवाय लुनाति । वा० । कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये, समासवच्च बहुलम् । ( 4700.)
बहुलग्रहणात् अन्यपरयोन समासवत् । इतरशब्दस्य तु नित्यम् । वा० । स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा वक्तव्यः । (4701.)

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695