Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan

View full book text
Previous | Next

Page 686
________________ पाणिनिसूनव्याख्या अस्मिन्नव ग्रन्थे श्लो0 16. मत्तमत्तनयनमिति पाठे मत्तमत्ते नयने अभी-. क्ष्णमत्ते । नैषधे-V. 38. शैशवव्यय दिनावधि तस्या यौवनोदयिनि राजसमाजे । आदराहरहः कुसुमेषोरल्ललास मृगयाभिनिवेशः ॥ 1937 ।। अहरहः प्रत्यहम् । वीप्सायां द्विर्भावः । अत्यन्तसंयोगे द्वितीया । नैषधे-I. 132. देप पदे सन्ति भटा रणोद्भटा न तेषु हिंसारस एष पूर्यते । धिगीदृशं ते नृपतेः कुविक्रम कृपाश्रये यः कृपणे पतत्रिणि ।। 1938 ।। पदे पदे सर्वत्र । वीप्सायां द्विर्भावः । मेघसंदेशे--I. 18. माग तावद्वछृणु कथयतस्त्वत्प्रयाणानुरूपं सन्देशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् । . खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ।। 1939 ।। खिन्नः खिन्नः अभीक्ष्णं क्षीणबलस्सन् । नित्यार्थे द्विर्भावः कृदन्तत्वात् । क्षीणः क्षीणः । पूर्ववत् । मेघसंदेशे-I. 9. मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां __ वामश्वाय नदति मधुरं चातकस्ते सगन्धः । गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः सेविष्यन्ते नयनसुभग खे भवन्तं बलाकाः ॥ 1940 ।। मन्दं मन्दमतिमन्दमित्यर्थः । मन्दशब्दः कृदन्तो न । अत्र कथञ्चिद्वीप्सायाःमेव द्विरुक्तिनिर्वाह्या । प्रकारे गुणवचनस्य' (सू. 2147 ) इति तदाश्रयणे कर्मधारयवद्भावेन सुब्लुकि मन्दमन्दमिति स्यात् ।

Loading...

Page Navigation
1 ... 684 685 686 687 688 689 690 691 692 693 694 695