Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan

View full book text
Previous | Next

Page 685
________________ ॥ अथ द्विरुक्तप्रकरणम् ॥ ... २१३९ । सर्वस्य द्वे । (८. १. १) इत्यधिकृत्य । २१४० । नित्यवीप्सयोः । (८. १. ४) आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्विवचनं स्यात् । आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकृदन्तेषु च । पचति पचति ! भुक्ता भुक्ता । दीप्सायां, वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः । 'आमीक्ष्ण्ये णमुल च' (लू. 3348) इत्यत्र चकारात् क्ला च। भट्टिकान्ये--V. 51. स्थायं स्थायं कचिद्यान्तं क्रान्त्वा क्रान्त्वा स्थित कचित् । वीक्षमाणो मृग रामश्चित्रवृत्तिं विसिष्मिये । 1934 || स्थायं स्थायं पुनः पुनः स्थित्वा । णमुल । द्विवचनम् । पौनःपुन्यमाभीक्ष्ण्यम् । क्रान्त्वा क्रान्त्वा । चकारात् क्ता । भट्टिकाव्ये--XXII. 11. स्यत्वा स्यन्त्या दिवश्शम्भोमनि स्कन्वा भुवं गताम् । गाहितासेऽथ पुण्यस्य गङ्गां मूर्तिमिव द्रुताम् ॥ 1935 || स्यन्त्वा स्यन्त्वा श्रुत्वा श्रुत्वा । चकारात् क्त्वा । आभीक्ष्ण्ये द्विवचनम् । भट्टिकाव्ये--XVIII. 27. शमं शमं नभवन्तः पुनन्ति परितो जगत् । उज्जिहीषे महाराज त्वं प्रशान्तो न किं पुनः ॥ 1986 ।। शमं शमं शान्त्वा शान्त्वा । आभीक्ष्ण्ये णमुल् । अनेन द्विवचनम् ।

Loading...

Page Navigation
1 ... 683 684 685 686 687 688 689 690 691 692 693 694 695