SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ ६६८. पाणिनिसूनव्याख्या २१३६ । शूलात्पाके । (५. ४. ६५) शूला करोति मांसम् । शूलेन पचतीत्यर्थः ।। २१३७ । सत्यादशपथे। ( ५. ४. ६६) सत्या करोति भाण्ड वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं करोति विप्रः। अनर्घराघवे--VI. 32. अगस्त्याज्ञासद्यःशमितविपुलोच्छ्रायविषमा. नुदस्यन्तस्सेतावलगितवतो विन्ध्यशिखरान् । शिरःसङ्ख्यासत्याकृतदशमुखालोकरभसा दुपेत्यातित्रस्ताश्चपलमपसर्पन्ति कपयः ।। 1933 । सत्याकृतो ज्ञातः । डान् । २१३८ । मद्रात्परिवापणे। (५. ४.६७) मद्रशब्दो मङ्गलार्थः । परिवापणं मुण्डनम् । मद्रा करोति । माङ्गत्यमुण्डनेन संस्करोतीत्यर्थः । वा० । भद्राचेति वक्तव्यम् । ( 3344.) भद्रा करोति । अर्थः प्राग्वत् । परिवापणे किम् । मद्रं करोति । ॥ इति स्वार्थिकप्रकरणम् ॥ ॥ इति तद्धितप्रक्रिया समाप्ता ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy