Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan
View full book text
________________
६
पाणिनिमूत्रव्याख्या
अस्मिन्नेव ग्रन्थे श्लो0 299. रामो नारायणतः प्रति । तेन तुल्य इत्यर्थः ।
वा० । आधादिभ्य उपसङ्ख्यानम् । ( 3339.) आदौ आदितः । मध्यतः । अन्ततः । पृष्ठतः । पाश्चतः ।
अस्मिन्नेव अन्थे श्लो. 1389. इतोऽत्र देशे। आधादित्वात्तसिरिति व्याख्यानम् । पञ्चम्यास्तसिल । किमादिभ्यस्तसिल सावैविभक्तिकः । आद्यादिः-५.५५.
२११२ । अपादाने चाहीयरहोः । (५. ४. ४५)
अपादाने या पञ्चमी तदन्ताततिः स्यात् । ग्रामादागच्छति । ग्रामतः । अहीयरुहोः किम् । स्वर्गाद्धीयते । पर्वतादवरोहति । .
अस्मिन्नेव ग्रन्थे श्लो. 215. केकयीतः कैकेय्याः । अपादानपञ्चम्यन्तातसिः । भरतोऽभूत् ।
अस्मिन्नेव ग्रन्थे श्लो० 1527. दिलीपः तां पत्नी स्थादवारोहयत् । निषेधान्न तसिः । पञ्चम्यास्तसिल । कुतः इतः इत्यादयः । दक्षिणतः । उत्तरतः । अतसुच् ।
२११७ । कृभ्वस्तियोगे सम्पद्यकर्तरि च्चिः । (५. ४. ५०)
वा० । अभूततद्भाव इति वक्तव्यम् । (3340.)
२११८ । अस्य च्यौ । (७. ४. ३२)
अवर्णस्य ईत्स्यात् । च्यन्तत्वादव्ययत्वम् । अकृष्णः कृष्णस्सम्पद्यते कृष्णी भवति । तं करोति कृष्णी करोति । ब्रह्मो भवति । गङ्गी स्यात् ।
वा० । अव्ययस्य च्चावीत्वं नेति वाच्यम् । (5052.) दोषाभूतमहः । दिवाभूता रात्रिः ।
अस्मिन्नेव ग्रन्थे श्लो० 56. घरन्तीति धराः । पचाद्यच् । पयसां धराः पयोधराः स्तनाः । अपयोघराः पयोधरास्सम्पद्यमानाः पयोधरीभूताः । विः । कुगति' (सू. 1761) इति समासः ।

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695