Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan

View full book text
Previous | Next

Page 678
________________ ६६२ पाणिनिसूत्रव्याख्या भट्टिकाव्ये- VIII. 1. दृष्टु दयितया साकं रहीभूतं दशाननम् । नात्र सीतेत्युपारस्त दुर्मना वायुसम्भवः !! 1916 || अरहो रहस्यभूतो रहीभृतो रहसि स्थितः तम् : च्वौ सलोपः । ईकारः । अस्मिन्नेव ग्रन्थ श्लो. 1851. अनीरजा नीरजा सम्पद्यमाना कारिता नीर-- जीकारिता । सुमनीवत्प्रक्रिया । माधे-XIII. 49. नवगन्धवारिविरजीकृताः पुरो धनधूपधूमकृतरेणुविभ्रमाः । प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयोऽथ हरिणा तिपेतिरे ।। 1917 ।। अविरजसो विरजसम्सम्पद्यमानाः कृता विरजीकृताः । सलोपः । ईकारः । २१२२ । विभाषा साति कात्स्न्ये । (५. ४. ५२) विविषये सातिर्वा स्यात्साकल्ये। २१२३ । सात्पदाद्योः। (८. ३. १११) सस्य षत्वं न स्यात् । अस्मिन्नेव ग्रन्थे श्लोक 28. ज्योतिस्सात् कास्न ज्योतिर्मयं कुर्वतीम् । सातिः । 'नुम् विर्सजनीय' (सू. 434) इत्यादिना षत्वे प्राप्ते अनेन षत्वनिषेधः । भट्टिकाव्ये-IX. 86. मधुसाद्भूतकिझल्कपिञ्जरभ्रभराकुलाम् । . उल्लसत्कुसुमां पुण्यां हेमरनलतामिव ।। 1918 ।। मधुसाद्भुताः कात्स्न्येप मधुभूताः । पूर्ववत्कास्न्य सातिप्रत्ययः । 'आदेशप्रत्ययोः' (सू. 212) इति षत्वे प्राप्ते पूर्ववत्प्रतिषेधः ॥ .

Loading...

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695