Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan

View full book text
Previous | Next

Page 674
________________ ६५८ पाणिनिसूत्रव्याख्या अस्मिन्नेव अन्थे लो0 1789. बन्धुरेव बान्धवः । पूर्ववदणें । अस्मिन्नेव ग्रन्थे श्लो० 1902. देवता एव दैवतानि । अण् । अस्मिन्नेव ग्रन्थे श्लो० 316. शत्रूनेव शात्रवान् । अश् । माघे-XVIII. 20. नीते भेदं धौतधाराभिघाता दम्भोदामे शात्रवेणापास्य । सामग्रा जिस्तीक्ष्णमागस्य मार्गों विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ॥ 1909 ।। शात्रवेण शत्रुणा । स्वार्थेऽण् । माघे-XIV. 44. आगताद्वयवसितेन चेतसां सत्त्वसम्पदविकारिमानसः । तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः ।। 1910 ।। मन एव मानसम् । अण् । अस्मिन्नेव ग्रन्थे श्लो० 1451. अश्मैवाश्मनम् । स्वार्थेऽण् । 'अश्मनो विकारे टिलोपो वक्तव्यः । (वा. 4185. सू. 1514) इति विकार एव टिलोपविधानात् नात्र टिलोपः। माघे-XVII. 24. जेतु जैत्राश्शेकिरे नारिसैन्यैः पश्यन्तोऽघोलोकमस्तेषुजालाः। नागारूढाः पार्वतानि श्रयन्तो दुर्गाणीव त्रासहीनास्त्रसानि ॥ 1911 ।। जेतार एव जैत्रा जयशीलाः । जेस्तृन्नन्तात् प्रज्ञादित्वादण् । अस्मिन्नेव ग्रन्थे श्लो० 1480. जैत्रं जयशीलम् । पूर्ववदण् ।

Loading...

Page Navigation
1 ... 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695