Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan
View full book text
________________
वार्यिकप्रकरमन्द नैपधे-VI. 77.
लिपिन देवी सुपटा भुवोति तुभ्यं मयि प्रेषितवाचिकस्य ।
इन्द्रस्य दूत्यां रचय प्रसाई विज्ञापयन्त्यानवधानानन ॥ 1325 व्याहृतार्था वाक् वाचिकं सन्देशवाकयन् । टक् । मावे--II. 70.
संप्रत्वसांप्रतं वक्तुमुक्ते मुसलपाणिना ।
निर्धारितेऽर्थे लेख्येन खलुक्ता खलु वाचिकम् ।। 19371 वाचिकं व्याहृतार्था वाचम् । ठक् ।।
२१०४ । तयुक्तात्कर्मणोऽण् । (५. ४. ३६ ; कर्मैव कार्मणम् ! वाचिकं श्रुत्वः क्रियमाणं कर्मेत्यर्थः ।
__ २१०५ । ओषधेरजातो । (५. ४. ३७) स्वार्थेऽण् । औषध विवति ।
२१०६ । प्रज्ञादिभ्यश्च ! (५. ४. ३८ ) स्वार्थेऽण । प्रज्ञ एव प्राज्ञः । प्राची स्त्री : देवतः : बान्धवः : प्रज्ञादि:५. ५४.
अस्मिन्नेव ग्रन्थे श्लो० 1687. प्राज्ञः ।
अस्मिन्नेव ग्रन्थे श्लो० 931. चरतीति चरः। पचाद्यन् । स एव चारः । अण् । माघे-II. 82.
बुद्धिशस्त्रः प्रकृत्यङ्गो धनसंवृतिकञ्चुकः ।
चारेक्षणो दूतमुखः पुरुषः कोऽपि पार्थिवः ।। 1903 ।। चरतीति चरः । पचाद्यच् । स एव चारो गूढपुरुषः । प्रज्ञादित्वात्स्वार्थेऽग् ! अस्मिन्नेव ग्रन्थे श्लो० 837. बन्धव एव बान्धवाः । स्वार्थेऽण ।
83

Page Navigation
1 ... 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695