Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan

View full book text
Previous | Next

Page 672
________________ ६५६ पाणिनिसूत्रव्याख्या २१०२ । विनयादिभ्यष्ठक् । (५. ४. ३४) विनय एव वैनयिकः । सामयिकः । (ग. सू.) उपायात् ह्रस्वत्वञ्च । 144, औपयिकः । विनयादिः- ५. ५३. नैषधे-II. 14. अचिरादुपर्कतुराचरेदथ वात्मौपयिकीमुपक्रियाम् । पृथुरित्थमथाणुरस्तु सा न विशेषे विदुषामिह ग्रहः ।। 1903 ॥ उपाय एव औपयिकः । विनयादित्वात्स्वार्थे ठक् । उपधाया हस्वः । तत आगता औपयिकी। तां औपयिकीम् । 'तत आगतः' (सू. 1453 ) इत्यणि डीप् । नैषधे--III. 127. त्वद्च्छावलिमौक्तिकानि गुलिकास्तं राजहंसं विभो र्वेध्यं विद्धि मनोभुवः स्वमपि तां मजुं धनुर्मञ्जरीम् । यन्नित्याङ्कनिवासलालिततमज्याभुज्यमानं लस __नाभीमध्यबिला विलासमखिलं रोमालिरालम्बते ॥ 1904 ।। मुक्ता एव मौक्तिकानि । विनयादित्वात्स्वार्थ ठगिति वामनः । रघुवंशे--XIV. 88. पौरेषु सोऽहं बहुलीभवन्तमपां तरङ्गेष्विव तैलबिन्दुम् । सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुमिव द्विपेन्द्रः ॥ 1905 ॥ आलानमेव आलानिकम् । खार्थे ठक् । २१०३ । वाचो व्याहतार्थायाम् । (५. ४.३५) खार्थे ठक् । — सन्देशवाग्वाचिकं स्यात् ' I v. 18. इत्यमरः ।

Loading...

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695