Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan
View full book text
________________
२५४
पाणिनिसूनव्याख्या
वा० । नश्च पुराणे प्रात् । (3328.) पुराणार्थे वर्तमानात्पशब्दात् नो वक्तव्यः । चात्पूर्वोक्ताः । प्रण, प्रलं, प्रतनं, प्रीणम् । अस्मिन्नेव ग्रन्थे श्लो० 1446. प्रत्नम् ।
वा० । भागरूपनामभ्यो धेयः । ( 3330.) भागधेयम् । रूपधेयम् । नामधेयम् । चम्परामायणे- 1. 99.
ग- अस्यां खलु नगर्यामारब्धयज्ञस्य राज्ञो जनकस्य भागधेयात् सीता. नामधेयभाजनमजीजनत्कन्यारत्न रत्नगर्भा भगवती ॥ 1898 ।। भाग एव भागधेयः । नामैव नामधेयम् । खार्थे धेयप्रत्ययः ।
वा० । आगीप्रसाधारणादम् । (3334.) आमीघ्रम् । साधारणम् । स्त्रियां ङीप् । आनीधी । साधारणी । अस्मिन्नेव ग्रन्थे श्लो० 480. क्षितिभृतां मृगया साधारणी।
२०९४ । अतिथेयः । (५. ४. २६) तादर्थ्य इत्येव । अतिथये इदमातिथ्यम् । चम्पूरामायणे-I. 95.
तिष्ठन् क्षत्रावृत्तौ मुनिरगमदसावाश्रमं ब्रह्मसूनो
रातिथ्यं तत्र लब्ध्वा निरवधि सुरभेः प्रामवादित्यवेत्य । सा तेन प्रार्थिताभूत्तदनु मुनिवरे नाभ्युपेते चकर्ष
क्रोशन्ती तां तयैव प्रचुरबलजुषा कान्दिशीको बभूव ॥ 1899 ॥ आतिथ्यम् ।
२०९५ । देवात्तल् । (५. ४. २७) देव एव देवता । स्वार्थे तल।

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695