Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan

View full book text
Previous | Next

Page 668
________________ पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 1574. त्रीन्वारान् त्रिः । सुच् । अस्मिन्नेव ग्रन्थे श्लो० 258. दम्पती कर्मभूतौ । वहिं त्रिस्त्रिवारम् । सुच् । परिणीय प्रदक्षिणीकार्य । ६५२ किरातार्जुनीये—- XVIII. 45. सपिङ्गाक्षः श्रीमान्भुवनमहनीयेन महसा तनुं भीमां बिभ्रत्तिगुणपरिवारप्रहरणः । परीत्येशानं त्रिः स्तुतिभिरुपगीतस्सुरगणैः सुतं पाण्डोवरं जलदमिव भाखानभिययौ ॥ 1893 || त्रिः त्रिवारम् । सुच् । २०८७ । एकस्य सकृच्च । ( ५.४.१९ ) सकृदित्यादेशः स्यात् । चात्सुच् । सकृद्भुङ्क्ते । सुचः संयोगान्तलोपः । माघे—XII. 52. सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृगेन्द्रेण सुपुरसुना पुनः । सैन्यान्न यातस्समयापि विव्यथे कथं सुराजंभवमन्यथाथवा ॥ 1894 ॥ सकृदेकवारम् । निपातः । देवत्यम् । २०८९ । तत्प्रकृतवचने मयट् । ( ५.४.२१ ) प्राचुर्येण प्रस्तुतं प्रकृतं तस्य वचनं प्रतिपादनम् । २०९२ । देवतान्तात्तादयै यत् । ( ५.४. २४ ) तदर्थ एव तादर्थ्यम् । खार्थे ष्यञ् । अग्निदेवतायै इदममिदेवत्यम् । पितृ २०९३ । पादार्घाभ्यां च । ( ५.४.२५ ) प्रादार्थमुदक पाथम् । अर्घ्यम् ।

Loading...

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695