Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan
View full book text
________________
६५०
पाणिनिसूत्रव्याख्या
ईश्वराधीनः । नित्योऽयं खः । “अषडक्षीणो यस्तृतीयाद्यगोचरः१ II. viii. 23. इत्यमरः।
अनघराघवे-III. 6.
मनोऽपि शङ्कमानाभिर्वालाभिरुपजीव्यते ।
अषडक्षीणपाडण्यमन्त्री मकरकेतनः ।। 1887 ।। न विद्यन्ते षडक्षीणि यत्र तदषडक्षीणम् । षड्गुणा एवं षागुण्यम् । सन्धिविग्रहादिको मन्त्रः । अनयोः कर्मधारयः । तयोर्मन्त्री कामः । खः ।
भट्टिकाव्ये -IV. 11.
हित्वाशितङ्गवीनानि फलैर्यवाशितम्भवम् ।
तेष्वसौ दन्दशूकारिवनेष्वानभ्र निर्भयः ॥ 1888 ।। आशिता आशितवत्यो गाव एष्विति आशितङ्गवीनानि । गोभक्षितकुशपलालादिकानीत्यर्थः । स्वार्थे खः । मुम् ।
अस्मिन्नेव ग्रन्थे ग. 1191. अलङ्कर्मीणः समर्थः । 'कर्मक्षमोऽलङ्कर्मीणः' III. i. 18. इत्यमरः ।
चम्पूरामायणे-II. 32.
ग ---सीतापि निजाभरणजातं सुयज्ञपल्यै न्यदात् । ततस्सौमित्रिरपि स्वाधीनेन धनेन कञ्चित् कौसल्याश्रितमुपाध्यायमतोषयत् ॥ 1889 ।।
अस्मिन्नेव ग्रन्थे श्लो० 1666. स्वाधीने । खः ।
२०८० । विभाषाञ्चेरदिस्त्रियाम् । (५. ४. ८) खः स्याद्वा स्वार्थे । माघे-I. 2.
गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । पतत्यथो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ।।1890॥

Page Navigation
1 ... 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695