SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ ६५० पाणिनिसूत्रव्याख्या ईश्वराधीनः । नित्योऽयं खः । “अषडक्षीणो यस्तृतीयाद्यगोचरः१ II. viii. 23. इत्यमरः। अनघराघवे-III. 6. मनोऽपि शङ्कमानाभिर्वालाभिरुपजीव्यते । अषडक्षीणपाडण्यमन्त्री मकरकेतनः ।। 1887 ।। न विद्यन्ते षडक्षीणि यत्र तदषडक्षीणम् । षड्गुणा एवं षागुण्यम् । सन्धिविग्रहादिको मन्त्रः । अनयोः कर्मधारयः । तयोर्मन्त्री कामः । खः । भट्टिकाव्ये -IV. 11. हित्वाशितङ्गवीनानि फलैर्यवाशितम्भवम् । तेष्वसौ दन्दशूकारिवनेष्वानभ्र निर्भयः ॥ 1888 ।। आशिता आशितवत्यो गाव एष्विति आशितङ्गवीनानि । गोभक्षितकुशपलालादिकानीत्यर्थः । स्वार्थे खः । मुम् । अस्मिन्नेव ग्रन्थे ग. 1191. अलङ्कर्मीणः समर्थः । 'कर्मक्षमोऽलङ्कर्मीणः' III. i. 18. इत्यमरः । चम्पूरामायणे-II. 32. ग ---सीतापि निजाभरणजातं सुयज्ञपल्यै न्यदात् । ततस्सौमित्रिरपि स्वाधीनेन धनेन कञ्चित् कौसल्याश्रितमुपाध्यायमतोषयत् ॥ 1889 ।। अस्मिन्नेव ग्रन्थे श्लो० 1666. स्वाधीने । खः । २०८० । विभाषाञ्चेरदिस्त्रियाम् । (५. ४. ८) खः स्याद्वा स्वार्थे । माघे-I. 2. गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । पतत्यथो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ।।1890॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy