________________
६५८
पाणिनिसूत्रव्याख्या
अस्मिन्नेव अन्थे लो0 1789. बन्धुरेव बान्धवः । पूर्ववदणें । अस्मिन्नेव ग्रन्थे श्लो० 1902. देवता एव दैवतानि । अण् । अस्मिन्नेव ग्रन्थे श्लो० 316. शत्रूनेव शात्रवान् । अश् । माघे-XVIII. 20.
नीते भेदं धौतधाराभिघाता
दम्भोदामे शात्रवेणापास्य । सामग्रा जिस्तीक्ष्णमागस्य मार्गों
विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ॥ 1909 ।। शात्रवेण शत्रुणा । स्वार्थेऽण् ।
माघे-XIV. 44.
आगताद्वयवसितेन चेतसां सत्त्वसम्पदविकारिमानसः । तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः ।। 1910 ।।
मन एव मानसम् । अण् ।
अस्मिन्नेव ग्रन्थे श्लो० 1451. अश्मैवाश्मनम् । स्वार्थेऽण् । 'अश्मनो विकारे टिलोपो वक्तव्यः । (वा. 4185. सू. 1514) इति विकार एव टिलोपविधानात् नात्र टिलोपः।
माघे-XVII. 24.
जेतु जैत्राश्शेकिरे नारिसैन्यैः
पश्यन्तोऽघोलोकमस्तेषुजालाः। नागारूढाः पार्वतानि श्रयन्तो
दुर्गाणीव त्रासहीनास्त्रसानि ॥ 1911 ।। जेतार एव जैत्रा जयशीलाः । जेस्तृन्नन्तात् प्रज्ञादित्वादण् । अस्मिन्नेव ग्रन्थे श्लो० 1480. जैत्रं जयशीलम् । पूर्ववदण् ।