Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan

View full book text
Previous | Next

Page 662
________________ ६४६ पाणिनिसूत्रव्याख्यां अनघराघवे - I. 55. ठा -अपि चेदानीं पटीरतरुकोटरकुटीरमध्यासीनाः || 1883 पटीरतरुकोटर एव कुटीरः हस्बा कुटी । ह्रस्वार्थे रप्रत्ययः । २०४४ । कुत्वा डुपच । ( ५.३.८९ ) ह्रस्वा कुतूः कुतुपः । 'कुतूः कृतेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् । १ II. ix 33. इत्यमरः । २०४५ | कानूगोणीभ्यां ष्टरच् । ( ५ ३.९० ) आयुधविशेषः कासूः । ह्रस्वा सा कासूतरी । गोणीतरी । 1 २०४६ । वत्सोक्षावर्ष मेभ्यश्च तनुत्वे । ( ५० ३.९० ) वत्सतरः । द्वितीयं वयः प्राप्तः उक्षतरः । अश्वतरः । ऋषभतरः । अस्मिन्नेव ग्रन्थे श्लो० 1098. वत्सतरः दग्यः । ' दम्यवत्सतरौ समौ ' II ix 62 इत्यमरः । अस्मिन्नेव ग्रन्थे श्लो० 124. वत्सतरी । वयवयहका गौः । ष्टरच् । पित्वत् स्त्रियां षिद्धौर दिभ्यश्च' ( सू. 198 ) इति ङीष् । 4 अस्मिन्नेव ग्रन्थे ग० 125. वत्सतरीम् । पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 142. तनुरुक्षा उक्षतरः । अदम्यो गौः । ष्टरच् । २०४७ । किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् । ( ५.३.९२ ) अनयोः कतरो वैष्णवः । यतरः । ततरः । २०४८ | वा बहूनां जातिपरिप्रश्ने डतमच् । ( ५. ३.९३ ) बहूनां मध्ये एकस्य निर्धारणे डतमब्वा स्यात् । कतमो भवतां कठः । यतमः । ततमः ।

Loading...

Page Navigation
1 ... 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695