________________
६४६
पाणिनिसूत्रव्याख्यां
अनघराघवे - I. 55.
ठा -अपि चेदानीं पटीरतरुकोटरकुटीरमध्यासीनाः || 1883 पटीरतरुकोटर एव कुटीरः हस्बा कुटी । ह्रस्वार्थे रप्रत्ययः ।
२०४४ । कुत्वा डुपच । ( ५.३.८९ )
ह्रस्वा कुतूः कुतुपः । 'कुतूः कृतेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् । १ II. ix 33. इत्यमरः ।
२०४५ | कानूगोणीभ्यां ष्टरच् । ( ५ ३.९० )
आयुधविशेषः कासूः । ह्रस्वा सा कासूतरी । गोणीतरी ।
1
२०४६ । वत्सोक्षावर्ष मेभ्यश्च तनुत्वे । ( ५० ३.९० )
वत्सतरः । द्वितीयं वयः प्राप्तः उक्षतरः । अश्वतरः । ऋषभतरः ।
अस्मिन्नेव ग्रन्थे श्लो० 1098. वत्सतरः दग्यः । ' दम्यवत्सतरौ समौ ' II ix 62 इत्यमरः ।
अस्मिन्नेव ग्रन्थे श्लो० 124. वत्सतरी । वयवयहका गौः । ष्टरच् । पित्वत् स्त्रियां षिद्धौर दिभ्यश्च' ( सू. 198 ) इति ङीष् ।
4
अस्मिन्नेव ग्रन्थे ग० 125. वत्सतरीम् । पूर्ववत् ।
अस्मिन्नेव ग्रन्थे श्लो० 142. तनुरुक्षा उक्षतरः । अदम्यो गौः । ष्टरच् । २०४७ । किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् । ( ५.३.९२ )
अनयोः कतरो वैष्णवः । यतरः । ततरः ।
२०४८ | वा बहूनां जातिपरिप्रश्ने डतमच् । ( ५. ३.९३ )
बहूनां मध्ये एकस्य निर्धारणे डतमब्वा स्यात् । कतमो भवतां कठः । यतमः ।
ततमः ।