________________
प्रागिवीन्यप्रकरणम्
माघे--XII. 3.
हस्तस्थिताखण्डितचक्रशालिन
द्विजेन्द्रकान्तं श्रितवक्षसं श्रिया । सत्यानुरक्तं नरकस्य जिगयो
गुणैर्नपाः शशिमन्वया नियुः ।। 1857 ! सत्यानुरक्तं सत्यायां सत्यभामायामनुरक्तम् ।
२०४० । अल्पे । (५. ३. ८५) अल्पं तैलं तैलकम् । माघे-XIII. 48.
अलसैम देन सुदृशः शरीरकैः
स्वगृहान्प्रति प्रतिययुः शनैः शनैः । अलघुप्रसारितविलोचनाञ्जलि
द्रुतपीतमाधवरसौघनिभेरैः ।। 1881 ॥ शरीरकाणि अल्पशरीराणि । कन् । अस्मिन्नेव ग्रन्थे श्लो० 1752. अङ्गकम् । कन् ।
२०४१ । ह्रस्वे । (५. ३. ८६) हस्वो वृक्षो वृक्षकः ।
रघुवंशे-I. 51
सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झिवृक्षकम् ।
विधासाय विहङ्गानामालवालाम्बुपायिनाम् ।। 1882 ॥ वृक्षकाः ह्रस्ववृक्षाः । हस्वार्थे कन् ।
२०४३ । कुटीशमीशुण्डाभ्यो रः । (५. ३. ८८) हस्वा कुटी कुटीरः । शमीरः । शुण्डारः ।