________________
६४४
पाणिनिसूलव्याख्या
२०३१ । अनुकम्पायाम् । ( ५.३.७६ )
पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ।
अस्मिन्नव ग्रन्थे श्लो० 781. कुब्रह्मयज्ञके । कुत्सितो यज्ञो यज्ञकः ।
कुत्सायां कन् ।
अस्मिन्नेव ग्रन्थे लो० 587 क्षत्रियकान्तिके । कुत्सायां कन् ।
भट्टिकाव्ये -- V. 48.
तापसके वीरौ विपक्षे गलितादरौ । किं चित्रं यदि सावज्ञौ मम्रतुः खरदूषणौ ॥ 1877 ॥ खरदूषण तापसके तापसाभासे । कुत्सायां कन् ।
२०३५ ठाजादावृ द्वितीयादचः । ( ५.३.८३ )
वा० । विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः । ( 3299. )
देवदत्तः, दत्तः, देवः । सत्यभामा, भामा, स्वत्या ।
चम्पूभारते - I. 68.
अत्यन्तचाख्यादमृता मितामि
रन्योन्यमर्घोक्तिभिराह्वयत्सु ।
सभीमसेनोऽजनि पाण्डुपुत्रे
वर्षोनामापि च पूर्णनामा ॥ 1878 ॥
भीमसेनः अर्धोक्तनामापि भीम इत्युक्तोऽपि पूर्णनामाऽजनि । सेनपदस्य लोपेन तस्य सर्वार्थबोधकत्वादिति भावः ।
चम्पूभारते - XII. 9.
आजगाम स सरस्वतीतटादाजिसीम्नि बलवान् बलस्तदा । आयते सह यदाख्यया खलु भद्रदेवपदयोस्समागमः ॥ 1879 ॥
बल आजगाम । यदाख्यया सह भद्रदेवपदयोत्समागमः ।