Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad

View full book text
Previous | Next

Page 229
________________ 216 Book III. TIIE WAR OF TIIE CROWS AND TIIE OWLS. Frame-story. Tale xiv: Bird whose dung was gold. स्वजातिविहितं *गृहिणीधर्मम अनुतिष्ठामि । सो ऽपि स्वतपोबलेन तां मूषिकों कृत्वा तस्मै प्रादात् ॥ अतो ऽहं ब्रवीमि । सूर्य मर्तारम् उत्सृज्य । इत्यादि । अथ रक्ताक्षवचनम् अनादृत्य 3 तैः स्ववंशविनाशाय स स्वदुर्गम उपनीतः । नीयमानश चान्तानम् अवहस्य स्थिरजीवी व्यचिन्तयत्। हन्यताम् इति येनोक्तं । स्वामिनो हितवादिना। स एवैको ऽत्र सर्वेषां । नीतिशास्त्रार्थतत्त्ववित् ॥ १९२॥ तद् यदि तस्य वचनम् *अकरिष्यन् एते । ततो न स्वल्पो ऽप्य अनर्थो ऽभविष्यद् एतेषाम् । अथ दुर्गद्वारं प्राप्यारिमर्दनो ऽब्रवीत् । भो भो हितैषिणो ऽस्य स्थिरजीविनो" यथासमीहितं स्थानं प्रयच्छत । तच च श्रुत्वा स्थिरजीवी व्यचिन्तयत् । मया तावद एतेषां वधोपायश चिन्तनीयः। स च मध्यस्थेन न साध्यते । यतो मदीयम इङ्गितादिकं विचारयन्तस ते ऽपि सावधाना भविष्यन्ति । दुर्गद्वारम् एवाश्रितो ऽभिप्रेतं साधयामि । 12 इति निश्चित्योलकपतिम् आह । देव । युक्तम् इदम् । यत् स्वामिना प्रोतम् । परम् अहम् अपि नीतिज्ञस ते हितश् च । यद्य अप्य अनुरक्तः शुचिः । तथापि दुर्गमध्य । आवासो नाहः । तद् अत्रैव दुर्गद्वारस्थः प्रत्यहं भवत्यादपद्मारजःपवित्रीकृततनुः सेवां 15 करोमि । तथा । इति प्रतिपन्ने प्रतिदिनम् उलूकपतिसेवकास ते प्रकामम् आहारं तत्वोलकराजादेशात प्रकृष्टमांसाहारं स्थिरजीविने प्रयच्छन्ति । अथ कतिपयैर् एवाहोभिर् मयूर व स बलवान् संवृत्तः । अथ रक्ताक्षः स्थिरजीविनं पोष्यमाणं दृष्ट्वा 18 सविस्मयो मन्त्रिजनं राजानं च प्रत्य आह । अहो। मूल्ऽयं मन्त्रिजनो भवांश चेति। एवम् अहम् अवगच्छामि । उक्तं च । पूर्व तावद् अहं मूर्यो। द्वितीयः पाशबन्धकः । ततो राजा च मन्त्री च । सर्व वै मूर्खमण्डलम् ॥ १९३॥ ते प्राहुः । कथम् एतत् । रक्तानः कथयति । - ॥ कथा १४॥ अस्ति कस्मिंश्चित पर्वतैकदेशे महावृक्षः । तच च को ऽपि पक्षी प्रतिवसति । यस्य पुरीषे सुवर्णम उत्पद्यते । अथ कदाचित् तम् उद्देशं व्याधः को ऽपि समाययौ । स च पक्षी तदयत एव 27 पुरीषम उत्ससर्ज । अथ पातसमकालम एव तत् सुवर्णीभूतं दृष्ट्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324