Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad

View full book text
Previous | Next

Page 297
________________ 284 Book v. THE FRUITS OF RASHNESS; Tale ix: Ogre, thief, and ape. ___ Tale ii: Four treasure-seekers. तथावगणितखलीनाकर्षणम अवलोक्य चौरश चिन्तयाम आस। अहो । नैवंविधा वाजिनो भवन्ति । तन नूनम् एतेनाश्वरूपेण राक्षसेन भाव्यम् । तद् यदि पांसुलं भूतलम अवलोकयामि । 3 तत्रात्मानं पातयामि । नान्यथा मे जीवितव्यम अस्ति । इति । एवं चिन्तयत इष्टदेवताम अनुस्मरतो ऽश्वापहारकस्य सो ऽश्वरूपराक्षसो वटवृक्षतले गतः । चौरो ऽपि वटप्ररोहम आसाद्य 6 तत्रैव विलग्नः। ततश च डाव् अपि पृथग्भूतो लब्धजीविताश परमानन्दनिर्भरौ बभूवतुः । अथ तत्र वटे राक्षससुहृत कश्चिद् वानर आसीत् । तेन . नश्यन्तं राक्षसम अवलोक्य व्याहृतम्। भोः । किम एवम अलीकभयन प्रणश्यसि । *भक्ष्यो ऽयं ते मानुषः । तद् भक्ष्यताम् । स तस्य वचनं श्रुत्वा स्वरूपम् आधाय शङ्कितमनाः स्खलितमतिर् 12 वृत्तः । अथ चौरस तं वानराहतं ज्ञात्वा कोपा उपर्य उपविष्टवानरस्य लम्बमानलाङ्गुलं मुखे निधाय गाढतरं चर्वितुम आर. ब्धवान । वानरो ऽपि राक्षसाभ्यधिकं मन्यमानो भयान न 15 किंचिद् अय् उक्तवान । केवलं व्यथा? नितरां निमीलितनयनो दन्तैर् दन्तान निष्पीडयंस तिष्ठति । राक्षसो ऽपि तं तथाभूतम अवलोक्य लोकम एनम् अपठत् । है यादृशी वदनच्छाया । दृश्यते तव वानर । है गृहीतो ऽसि विकालेन । यः परैति स जीवति ॥६॥ १ सुवर्णसिद्धः पुनर् अप्य् आह । प्रेषय माम् । स्वगृहम अनु- 21 गच्छामि । त्वं पुनर् अत्र स्थितो दुर्विनयवृक्षाफलम् अनुभुस । चक्रधर आह । भोः । अकारणम् एतत् । नयो ऽनयो वा । यतो दैववशाच् छुभाशुभं नृणाम् उपतिष्ठते । उक्तं च । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324