Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad
View full book text
________________
OR, THE BARBER WHO KILLED THE MONKS. Book v. 289 Tale x: Blind man, &c. Tale ii : Four treasure-seekers. Colophon and Prasasti. अपि किंचिच् छस्त्रम् अपश्यन क्रोधान्धः पूर्ववत् समीपं गत्वा मन्थरकं चरणाभ्याम् आदाय शरीरबलसामर्थ्यान मस्तकोपरि * परिभ्राम्य तं विस्तनीहृदये व्यताडयत् । अथ कुब्जकशरीरप्रहारेण 3 तस्यास् तृतीयस्तनो ऽन्तः प्रविष्टः । पृष्ठप्रदेशस्तनस्पर्शात् कुन्नकः प्राञ्जलतां गतः ॥ । अतो ऽहं ब्रवीमि । अन्धकः कुन्नकश च । इति । सुवर्ण- 6 सिद्धः प्राह । भोः । सत्यम् एतद् अभिहितं त्वया । दैवानुकूलतया सर्वत्र कल्याणं संपद्यते । परं तथापि पुरुषेण दैवम् अङ्गीकृत्य नयो न त्याज्यः । यथा त्वया मम वाक्यम् अकुर्वता त्यक्तः।
एवम उक्त्वा *सुवर्णसिद्धस तम अनुज्ञाप्य स्वगृहं प्रति प्रतिनिवृत्तः ॥ इति ॥ समाप्तं चेदम अपरीक्षितकारिता नाम पञ्चमं तन्त्रम् । यस्यायम् आद्यश्लोकः। 12
कुदृष्टं कुपरिजातं । कुकृतं कुपरीक्षितम्।
तन नरेण न कर्तव्यं । नापितेनेह यत् कृतम् ॥५॥ एतत्समाप्ती समाप्तं *पञ्चतन्त्रापरनामकं पञ्चाख्यानक नीतिशास्त्रम्।
कथान्वितं सत्कविसूक्तयुक्तं । श्रीविष्णुशर्मा नृपनीतिशास्त्रम् । चकार येनह परोपकारः । स्वर्गाय जायेत बुधा वदन्ति ॥१॥ श्रीसोममन्त्रिवचनेन विशीर्णवर्णम आलोक्य शास्त्रम अखिलं खलु पञ्चतन्त्रम् । श्रीपूर्णभद्रगुरुणा गुरुणादरेण संशोधितं नृपतिनीतिविवेचनाय ॥२॥ प्रत्यक्षरं प्रतिपदं । प्रतिवाक्यं प्रतिकथं प्रतिश्लोकम् । श्रीपूर्णभद्रमूरिर् । विशोधयाम आस शास्त्रम् इदम् ॥३॥ यद् यत् किंचित् क्वचिद् अपि मया नेह सम्यक् प्रयुक्त, तत् क्षन्तव्यं निपुणधिषणैः क्षान्तिमन्तो हि सन्तः । *श्रीश्रीचन्द्र प्रभपरिवृढः पातु मां पातकेभ्यो यस्याद्यापि भ्रमति भुवने कीर्तिगङ्गाप्रवाहः ॥४॥
mandi 27 Pp
upa
vasa 21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324