Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad
View full book text
________________
288
Book v. THE FRUITS OF RASHNESS%3B Tale x: Blind man, hunchback, three-breasted princess.
सुखेन कालं नयावः । तद् अन्विषतां वापि विषम । येन तद् दत्वामुं व्यापाद्य सुखिनी भवामि । अथान्येयुः कुन्जेन मृतः कृष्णसर्पः कुवाप्य आसादितः । तं गृहीत्वा प्रहृष्टमनाः स्वगृहम 3 अभ्येत्य ताम आह । सुभगे । लब्धो ऽयं कृष्णसर्पः । तद् एनं खण्डशः कृत्वा चारुवस्तुभिः संस्कृत्यामुष्मै विगतनयनाय । मत्स्यामिषम् । इति कथयित्वा संप्रयच्छ । येन द्राग् विपद्यते । इति ।। एवम उक्त्वा भूयो ऽपि मन्थरको हदमार्ग प्रति प्रस्थितः । सापि कृष्णसर्प खण्डीकृत्य सतक्रस्थाल्यां निधाय चुल्लीमस्तकम् आरोप स्वयं गृहव्यापारव्याकुलतया तम् अन्धं सप्रश्रयम् इदम् आह । ' आर्यपुत्र । अहम अद्य तवाभीष्टतमान मत्स्यान समानीय पचन्ती तिष्ठामि । तद् यावद् अहं गृहव्यापारान्तरं करोमि । तावत् त्वं दवी गृहीत्वैतान प्रचालय । सो ऽपि तच छुत्वा प्रहृष्टमनाः 12 सृक्विणी परिलिहन सत्वरम उत्थाय दर्वीम् आदाय तान प्रचालयितुम् आरभत । अथ तान प्रचालयतो विषगर्भबाष्पेण संस्पृष्टं दृष्टिपटलं शनैः शनैर् *अगलत् । सो ऽपि तम् एव गुणं 15 मन्यमानो विशेषेण बाष्पयहणम् अकरोत् । ततः स्पष्टदृष्टिर् यावत् पश्यति । तावत् स्थालीमध्ये कृष्णसर्पशकलानि केवलानि । ततो व्यचिन्तयत् । अहो । किम् एतत् । ममाये मत्स्या- 18 मिषं कथितम् आसीत् । एतानि पुनः कृष्णसर्पशकलानि । तत् तावज जानामि सम्यक् । किं विस्तन्याश चेष्टितम् इदम । किं वा मवधायुष उपक्रमो मन्थरकस्य । उतान्यस्य वा कस्यचित् । 21 एवं स चिन्तयन्न आकारं निगूहयन्न अन्धवत् कर्म करोति । अबान्तरे मन्थरकः समागत्य निःशङ्कम आलिङ्गनचुम्बनादिभिस बिस्तनीम् उपभोक्तुम उपचक्रमे । अन्धो ऽपि सर्वम् आलोकयन्न 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324