Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad
View full book text
________________
Book v. THE FRUITS OF RASHNESS%3B
282 Tale viii: A pe's revenge.
Tale ii : Four treasure-seekers.
। एतद् आकर्ण्य राजा शोकाविष्टम् त्वरित पदं *यथायातं प्रतिनिवृत्तः । इति । अथ तस्मिन भूपतौ गते राक्षसः सुतृप्तो जलान् नुिष्क्रम्य सानन्दम इदम आह । ___ हतः शत्रुः कृतं मित्रं । रत्नमाला न हारिता ।
नालेन पिबता तोयं । भवता साधु वानर ॥६५॥ । अतो ऽहं ब्रवीमि । यो लौल्यात् कुरुते कर्म । इति । । सुवर्णसिद्धः पुनर् अय् आह । भोः । प्रेषय माम् । स्वगृहं गच्छामि । चक्रधरः प्राह । कथं माम् एतदवस्थं मुल्ला यास्यसि । उक्तं च।
यस त्यता सापदं मित्रं । याति निष्ठुरतां वहन।
कृतघ्रस तेन पापेन । नरके गच्छति ध्रुवम् ॥६६॥ सुवर्णसिद्धः प्राह । भोः । सत्यम् एतत् । यदि गम्यस्थाने शक्ति- 12 युक्तस त्यजति । एतच् च मनुष्याणाम् अगम्यस्थानम् । नास्ति च कदाचिद् अपि शक्तिर उन्मोचयितुम् । अपरम । यथा यथा तव चक्रनमणवेदनया मुखविकारं पश्यामि । तथा तथा जा- 15 नामि । *यद् द्राग् इतः स्थानाद् गच्छामि । मा कथंचिद् अय् अस्माकम् अय् अनर्थो ऽयं भविष्यति । इति । अथ साध्व् इदम उच्यते।
यादशी वदनच्छाया। दश्यते तव वानर ।
गृहीतो ऽसि विकालेन । यः परैति स जीवति ॥६७॥ चक्रधर आह । कथम् एतत् । सो ऽब्रवीत् ।
18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324