Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad

View full book text
Previous | Next

Page 294
________________ 281 OR, THE BARBER WHO KILLED THE MONKS. Book v. Tale viii: Ape's revenge. नरो ऽपि राज्ञा दोलारूढेन स्वोत्सङ्गम आरोपितः प्रतिपत्तिपूर्व गच्छति । अथवा साध्व् इदम उच्यते । लोभाद् एव नरा मूढा । धनविद्यान्विता अपि । अकृत्येषु नियोज्यन्ते । *भ्राम्यन्ते दुर्गमेष्व् अपि ॥६१॥ तथा च । इच्छति शती सहस्रं । सहस्री लक्षम ईहते। लक्षाधिपस ततो राज्यं । राज्याच् च स्वर्गम् ईहते ॥६२॥ जीर्यन्ति जीर्यतः केश । दन्ता जीर्यन्ति जीर्यतः। जीर्यतश चक्षुषी श्रोचे । तृष्णेका तु न जीर्यति ॥६३॥ अथ प्रत्यूषे तत् सरः समासाद्य वानरो राजानम उवाच । देव । अत्राोदिते सूर्ये प्रविष्टानां सिद्धिर् भवति । इति । तत् सर्वो ऽपि परिजनो वाच्यः । येनैकहेलया प्रविशति । त्वया पुनर् 12 मया सह प्रवेष्टव्यम् । येन पूर्वदृष्टस्थानम् आसाद्य प्रभूतास ते रत्नमाला दर्शयामि । अथ प्रविष्टास ते सर्वे लोकाः । भक्षिताश १च तेन राक्षसेन । इति । अथ चिरायमाणेषु तेषु राजा वानरम उवाच । भो यूथाधिप । किम् इति चिरयति मे परिजनः । तच् छ्रुत्वा वानरः सत्वरं वृक्षम आरुह्य राजानम उवाच । भो दुष्टनरपते । राक्षसे- 18 नान्तःसलिलस्थेन भक्षितस ते परिजनः । साधितं कुलक्षयकारणोत्यं भवता सह वैरम । तद् गम्यताम् । मया त्वं स्वामी मत्वा नाच प्रवेशितः । उक्तं च । यतः । __ कृते प्रतिकृतं कुर्याद् । धिंसिते प्रतिहिंसितम्। न तब दोषं पश्यामि । यो दुष्टे दुष्टम् आचरेत् ॥६४॥ तत् त्वया मम कुलक्षयो निर्मितः । मया तव । इति । ०० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324