________________
216
Book III. TIIE WAR OF TIIE CROWS AND TIIE OWLS. Frame-story.
Tale xiv: Bird whose dung was gold.
स्वजातिविहितं *गृहिणीधर्मम अनुतिष्ठामि । सो ऽपि स्वतपोबलेन तां मूषिकों कृत्वा तस्मै प्रादात् ॥
अतो ऽहं ब्रवीमि । सूर्य मर्तारम् उत्सृज्य । इत्यादि । अथ रक्ताक्षवचनम् अनादृत्य 3 तैः स्ववंशविनाशाय स स्वदुर्गम उपनीतः । नीयमानश चान्तानम् अवहस्य स्थिरजीवी व्यचिन्तयत्।
हन्यताम् इति येनोक्तं । स्वामिनो हितवादिना।
स एवैको ऽत्र सर्वेषां । नीतिशास्त्रार्थतत्त्ववित् ॥ १९२॥ तद् यदि तस्य वचनम् *अकरिष्यन् एते । ततो न स्वल्पो ऽप्य अनर्थो ऽभविष्यद् एतेषाम् । अथ दुर्गद्वारं प्राप्यारिमर्दनो ऽब्रवीत् । भो भो हितैषिणो ऽस्य स्थिरजीविनो" यथासमीहितं स्थानं प्रयच्छत । तच च श्रुत्वा स्थिरजीवी व्यचिन्तयत् । मया तावद एतेषां वधोपायश चिन्तनीयः। स च मध्यस्थेन न साध्यते । यतो मदीयम इङ्गितादिकं विचारयन्तस ते ऽपि सावधाना भविष्यन्ति । दुर्गद्वारम् एवाश्रितो ऽभिप्रेतं साधयामि । 12 इति निश्चित्योलकपतिम् आह । देव । युक्तम् इदम् । यत् स्वामिना प्रोतम् । परम् अहम् अपि नीतिज्ञस ते हितश् च । यद्य अप्य अनुरक्तः शुचिः । तथापि दुर्गमध्य । आवासो नाहः । तद् अत्रैव दुर्गद्वारस्थः प्रत्यहं भवत्यादपद्मारजःपवित्रीकृततनुः सेवां 15 करोमि । तथा । इति प्रतिपन्ने प्रतिदिनम् उलूकपतिसेवकास ते प्रकामम् आहारं तत्वोलकराजादेशात प्रकृष्टमांसाहारं स्थिरजीविने प्रयच्छन्ति । अथ कतिपयैर् एवाहोभिर् मयूर व स बलवान् संवृत्तः । अथ रक्ताक्षः स्थिरजीविनं पोष्यमाणं दृष्ट्वा 18 सविस्मयो मन्त्रिजनं राजानं च प्रत्य आह । अहो। मूल्ऽयं मन्त्रिजनो भवांश चेति। एवम् अहम् अवगच्छामि । उक्तं च ।
पूर्व तावद् अहं मूर्यो। द्वितीयः पाशबन्धकः ।
ततो राजा च मन्त्री च । सर्व वै मूर्खमण्डलम् ॥ १९३॥ ते प्राहुः । कथम् एतत् । रक्तानः कथयति ।
-
॥ कथा १४॥ अस्ति कस्मिंश्चित पर्वतैकदेशे महावृक्षः । तच च को ऽपि पक्षी प्रतिवसति । यस्य पुरीषे सुवर्णम उत्पद्यते । अथ कदाचित् तम् उद्देशं व्याधः को ऽपि समाययौ । स च पक्षी तदयत एव 27 पुरीषम उत्ससर्ज । अथ पातसमकालम एव तत् सुवर्णीभूतं दृष्ट्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org