Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad

View full book text
Previous | Next

Page 266
________________ OR, THE APE AND THE CROCODILE. Book IV. 253 Talex: Jackal's four foes. प्रदेशे समाययौ । अथ तम् आगतं दृष्ट्वा स क्षितितलमिलन्मौलिमण्डलः संयोजितकरकमलः सविनयम उवाच । स्वामिन । त्वदीयो ऽहं लागुडिकः । त्वदर्थे गजम इमं रक्षामि । तद् एनं ४ भक्षयतु स्वामी । अथ सिंहः प्राह । भोः । नाहम अन्यहतं कदाचिद् अपि भक्षयामि । तत् तवेव गजो ऽयं मया प्रसादीकृतः । तच् छुत्वा शृगालः सानन्दम् आह । युक्तम् इदं । स्वामिनो निजभूत्येषु । ___ अथ सिंहे गते कश्चिद् व्याघ्रः समाययौ । तम् अपि दृष्ट्वा सो व्यचिन्तयत् । एकस् तावद् दुरात्मा प्रणिपातेनापवाहितः ।। तत् कथम इदानीम एनम अपवाहयिष्यामि । नूनं शूरो ऽयम्। न खलु भेदं विना साध्यो भवति । उक्तं च। न यत्र शक्यते कर्तुं । साम दानम् अथापि वा। भेदस तत्र प्रकर्तव्यो । यतो ऽसौ वशकारकः ॥३२॥ किं च । सर्वो ऽपि भेदेन बध्यते । उक्तं च। । *अन्तःस्थेनाविरुद्धेन । सुवृत्तेनातिचारुण । अन्तभेदेन संप्राप्तं । मौक्तिकेनापि बन्धनम् ॥६३॥ एवं संप्रधार्य तदभिमुखो गत्वेषदुन्नतकन्धरः ससंभ्रमम् उवाच । माम । कथम् अत्र भवान मृत्युमुखे प्रविष्टः । येनैष सिंहेन गजो 18 व्यापादितः । स च माम् एतद्रक्षणे नियुज्य स्वयं स्नानार्थ गतः । तेन गच्छता समादिष्टम् । यदि कश्चिद् इह व्याघ्रः समेति । तत् त्वया सुगुप्नं ममावेदनीयम् । येन वनम् इदं मया निर्व्याघ्रं 21 कर्तव्यम् । यतः पूर्वं व्याघेणैकेन मयापादितो गजः *शून्य उछिष्टतां नीतः । तदिनाद् आरभ्य व्याघ्रान प्रति प्रकुपितो ऽस्मि । अथ तच् छ्रुत्वा व्याघ्रः संत्रस्तस तम आह । भो भागिनेय । देहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324