________________
OR, THE APE AND THE CROCODILE. Book IV.
253
Talex: Jackal's four foes.
प्रदेशे समाययौ । अथ तम् आगतं दृष्ट्वा स क्षितितलमिलन्मौलिमण्डलः संयोजितकरकमलः सविनयम उवाच । स्वामिन । त्वदीयो ऽहं लागुडिकः । त्वदर्थे गजम इमं रक्षामि । तद् एनं ४ भक्षयतु स्वामी । अथ सिंहः प्राह । भोः । नाहम अन्यहतं कदाचिद् अपि भक्षयामि । तत् तवेव गजो ऽयं मया प्रसादीकृतः । तच् छुत्वा शृगालः सानन्दम् आह । युक्तम् इदं । स्वामिनो निजभूत्येषु । ___ अथ सिंहे गते कश्चिद् व्याघ्रः समाययौ । तम् अपि दृष्ट्वा सो व्यचिन्तयत् । एकस् तावद् दुरात्मा प्रणिपातेनापवाहितः ।। तत् कथम इदानीम एनम अपवाहयिष्यामि । नूनं शूरो ऽयम्। न खलु भेदं विना साध्यो भवति । उक्तं च।
न यत्र शक्यते कर्तुं । साम दानम् अथापि वा। भेदस तत्र प्रकर्तव्यो । यतो ऽसौ वशकारकः ॥३२॥ किं च । सर्वो ऽपि भेदेन बध्यते । उक्तं च। । *अन्तःस्थेनाविरुद्धेन । सुवृत्तेनातिचारुण ।
अन्तभेदेन संप्राप्तं । मौक्तिकेनापि बन्धनम् ॥६३॥ एवं संप्रधार्य तदभिमुखो गत्वेषदुन्नतकन्धरः ससंभ्रमम् उवाच । माम । कथम् अत्र भवान मृत्युमुखे प्रविष्टः । येनैष सिंहेन गजो 18 व्यापादितः । स च माम् एतद्रक्षणे नियुज्य स्वयं स्नानार्थ गतः । तेन गच्छता समादिष्टम् । यदि कश्चिद् इह व्याघ्रः समेति । तत् त्वया सुगुप्नं ममावेदनीयम् । येन वनम् इदं मया निर्व्याघ्रं 21 कर्तव्यम् । यतः पूर्वं व्याघेणैकेन मयापादितो गजः *शून्य उछिष्टतां नीतः । तदिनाद् आरभ्य व्याघ्रान प्रति प्रकुपितो ऽस्मि । अथ तच् छ्रुत्वा व्याघ्रः संत्रस्तस तम आह । भो भागिनेय । देहि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org