SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 252 Bdok IV. THE LOSS OF ONE'S GETTINGS%3 Tale ix: Ape and officious bird. Frame-story. Taler: Jackal's four foes. एवं विचिन्य ताम आह। सूचीमुखि दुराचारे । रण्डे पण्डितमानिनि । तूष्णीं भव करियामि । नो चेत् त्वां निर्गृहाम् अहम् ॥५॥ १ एवं तेन सा निषिद्यापि यदा पुनः पुनर् आश्रयकरणोपदेशेन तम उद्देजयति । तदासौ तं वृक्षम आरुह्य तस्याः कुलायं खण्डश: कृत्वा बभञ्ज ॥ । अतो ऽहं ब्रवीमि । उपदेशो न दातव्यः । इति । तच् छ्रुत्वा मकरः प्राह । भो मित्र । सापराधस्यापि मे पूर्वस्नेहम् अनुस्मृत्य हितोपदेशं देहि । वानर आह । नाई ते कथयिष्यामि । यद् भार्यावाक्येन भवताह समुद्रे प्रक्षेपितुं नीतः। यद्य अप्य् अतीववल्लभा भार्या । तद् अपि तद्वाक्येन मित्रबान्धवादयः समुद्रे किं प्रक्षिप्यन्ते । तच क्रुत्वा मकरः प्राह । भद्र । यद्य् एवम् । तथापि । सख्यं साप्तपदीनम् । इति विचिस्य। किंचिन मे हितं समुपदिश । उक्तं च । यतः । उपदेशप्रदातृणां । नराणां हितम् इच्छताम् । परस्मिन्न इहलोके च । व्यसनं नोपपद्यते ॥५॥ तत् सर्वथा कृतागसो ऽपि मे कुरु प्रसादम उपदेशदानेन । उक्तं च । उपकारिषु यः साधुः । साधुत्वे तस्य को गुणः। अपकारिषु यः साधुः । स साधुः सनिर इष्यते ॥६॥ तद् आकर्ण्य वानरः प्राह । भद्र । यद्य एवम् । तर्हि तत्र गस्खा तेन सह युद्धं कुरु । उक्तं 18 च । यतः। उत्तम प्रणिपातेन । शूरं भेदेन योजयेत् । नीचम् अल्पप्रदानेन । समशक्ति पराकमैः ॥६॥ मकर आह । कथम् एतत् । सो ऽब्रवीत्। ॥ कथा १० ॥ अस्ति कस्मिंश्चिद् वनोद्देशे महाचतुरको नाम शृगालः । तेन ॥ कदाचिद् अरण्ये स्वयं मृतो गजः समासादितः । परं तस्य समन्तात् परिभ्रमति । कठिनां त्वचं भेतुं न शक्नोति । अथात्रावसर इतश चेतश च परिभ्रमन कश्चित् सिंहस् तत्रैव ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy