Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad
View full book text
________________
278
Book v. THE FRUITS OF RASHNESS;
Tale viii: Ape's revenge.
मेषेण सूपकाराणां । कलहो यो ऽत्र वर्तते । स भविष्यत्य असंदिग्धं । वानराणां क्षयावहः ॥५५॥ तस्मात् स्यात् कलहो यत्र । गृहे नित्यम् अकारणः ।
तद् गृहं जीवितं वाञ्छन् । दूरतः परिवर्जयेत् ॥५६॥ तथा च। __ *कलहान्तानि हाणि । कुवाक्यान्नं च सौहृदम । है कुराजान्तानि राष्ट्राणि । कुकर्मानं यशो नृणाम ॥५७॥ तन न यावत् सर्वेषां क्षयो भवति । तावद् गृहं परित्यज्य वनं *गच्छामः।
अथ तस्य तद् वचनं श्रुत्वा ते *मदोद्धता विहस्य तम् ऊचुः। भोः । वृद्धभावाद् भवतो वैकल्यं बुद्धेः संजातम् । येनैतद् ब्रवीषि । न वयं राजपुत्रैः स्वहस्तप्रदतान अमृतकल्यान भक्ष्य- 12 विशेषान परित्यज्य तबाटव्यां कषायकटुतिक्तक्षाराणि वृक्षफलानि भक्षयिष्यामः । तच् छुत्वा कलुषां दृष्टिं कृत्वा यूथपः प्रोवाच । रे रे। मूर्खा यूयम् । नैतस्य सुखस्य परिणामं जानीथ । यस्माद् 15 आपातमात्रमधुरम् एतत् सुखं परिणामे विषवद् भविष्यति । तद् अहं कुलक्षयं स्वयं नावलोकयिष्यामि । सांप्रतं तद् एव वनं यास्यामि । उक्तं च ।। है परहस्तगतां भार्या । मित्रं च विषमस्थितम् ।
धन्यास तात न पश्यन्ति । देशभङ्गं कुलक्षयम् ॥५॥ इति । एवम अभिधाय सर्वान परित्यज्य स यूथपो ऽटव्यां गतः। 1
अथ तस्मिन गते ऽन्यतमे ऽहनि स मेषो महानसे प्रविष्टः। यावत् सूपकारेण किंचिद् अपि नासादितम् । तावद् अर्धदग्धज्वलितकाष्ठम आदाय स ताडितः । सो ऽपि तेन ताडितः सन्न् ।
18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324