Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad

View full book text
Previous | Next

Page 286
________________ OR, THE BARBER WHO KILLED THE MONKS. Book v. 273 Talevi: Two-headed weaver. . Tale ii: Four treasure-seekers. । यस्य नास्ति स्वयं प्रज्ञा । मित्राणां न करोति यः। स एव निधनं याति । यथा मन्थरकौलिकः ॥४६॥ स्वर्णसिद्ध आह । कथम् एतत् । चक्रधरः कथयति । ॥ कथा ६॥ अस्ति कस्मिंश्चिद् अधिष्ठाने मन्थरको नाम कौलिकः । तस्य कदाचित सर्वाणि पटकर्मकाष्ठानि भग्नानि । ततः स कुठारम : आदाय काष्ठार्थ परिभ्रमन समुद्रतटं प्राप । तत्र च महान्तं शिंशपापादपं दृष्ट्वा चिन्तितवान् । महान अयं वृक्षो दृश्यते । तद् अनेन *कर्तितेन प्रभूतानि पटकर्मोपकरणानि भविषन्ति । इत्य अवधार्य तस्योपरि कुठारम् उद्यतवान् । अथ तत्र वृक्षे कश्चिद् व्यन्तर आसीत् । तेनाभिहितम । भोः । ममाश्रयो ऽयं पादपः। तत् सर्वथा रक्षणीयः । यतो ऽहम् इह समुद्रकल्लोलसंस्पर्शशीत- 12 लानिलस्पृश्यमानशरीरः परमसुखेन तिष्ठामि । कौलिक आह । भोः । तद् अहं किं करोमि । दारुसामयीं विना बुभुक्षया पीड्यते मम कुटम्बम् । इति । तस्माद् अन्यत्र शीघ्रं गम्यताम् । अहम 15 एनं कर्तिष्यामि । व्यन्तरो ऽब्रवीत् । भोः । तुष्टस तवाहम । प्रार्थ्यतां किंचिद् अभीष्टम् । रक्षेनं पादपम् । इति । कौलिक आह । यद्य् एवम् । तर्हि । अहं गृहं गत्वा स्वमित्रं पत्नी च पृष्ट्वा 18 समागच्छामि । अथ । तथा । इति व्यन्तरेण प्रतिपन्ने कौलिकः स्वगृहं प्रति निवृतो यावद् अधिष्ठाने प्रविशति । तावन निजसुहृदं नापितम अपश्यत् । आह च । अहो मित्र । मम कश्चिद् 4 व्यन्तरः सिद्धः । तत् कथय । किं प्रार्थये । नापित आह । भद्र। । यद्य् एवम् । तद् राज्यं प्रार्थयस्व । येन त्वं राजा । अहं मन्त्री। Nn Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324