________________
OR, THE BARBER WHO KILLED THE MONKS. Book v.
273
Talevi: Two-headed weaver. . Tale ii: Four treasure-seekers.
। यस्य नास्ति स्वयं प्रज्ञा । मित्राणां न करोति यः।
स एव निधनं याति । यथा मन्थरकौलिकः ॥४६॥ स्वर्णसिद्ध आह । कथम् एतत् । चक्रधरः कथयति ।
॥ कथा ६॥ अस्ति कस्मिंश्चिद् अधिष्ठाने मन्थरको नाम कौलिकः । तस्य कदाचित सर्वाणि पटकर्मकाष्ठानि भग्नानि । ततः स कुठारम : आदाय काष्ठार्थ परिभ्रमन समुद्रतटं प्राप । तत्र च महान्तं शिंशपापादपं दृष्ट्वा चिन्तितवान् । महान अयं वृक्षो दृश्यते । तद् अनेन *कर्तितेन प्रभूतानि पटकर्मोपकरणानि भविषन्ति । इत्य अवधार्य तस्योपरि कुठारम् उद्यतवान् । अथ तत्र वृक्षे कश्चिद् व्यन्तर आसीत् । तेनाभिहितम । भोः । ममाश्रयो ऽयं पादपः। तत् सर्वथा रक्षणीयः । यतो ऽहम् इह समुद्रकल्लोलसंस्पर्शशीत- 12 लानिलस्पृश्यमानशरीरः परमसुखेन तिष्ठामि । कौलिक आह । भोः । तद् अहं किं करोमि । दारुसामयीं विना बुभुक्षया पीड्यते मम कुटम्बम् । इति । तस्माद् अन्यत्र शीघ्रं गम्यताम् । अहम 15 एनं कर्तिष्यामि । व्यन्तरो ऽब्रवीत् । भोः । तुष्टस तवाहम । प्रार्थ्यतां किंचिद् अभीष्टम् । रक्षेनं पादपम् । इति । कौलिक आह । यद्य् एवम् । तर्हि । अहं गृहं गत्वा स्वमित्रं पत्नी च पृष्ट्वा 18 समागच्छामि । अथ । तथा । इति व्यन्तरेण प्रतिपन्ने कौलिकः स्वगृहं प्रति निवृतो यावद् अधिष्ठाने प्रविशति । तावन निजसुहृदं नापितम अपश्यत् । आह च । अहो मित्र । मम कश्चिद् 4 व्यन्तरः सिद्धः । तत् कथय । किं प्रार्थये । नापित आह । भद्र। । यद्य् एवम् । तद् राज्यं प्रार्थयस्व । येन त्वं राजा । अहं मन्त्री।
Nn
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org