SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 274 Book v. THE FRUITS OF RASHNESS%3B Tale vi: Two-headed weaver. वाव् अपीहलोकसुखम् अनुभूय परलोकसुखम् अनुभवावः । कौलिक आह । भी मित्र । भवत्व एवम् । परं पत्नीम अपि पृच्छामि । नापित आह । न हि स्त्रीभिः सह मन्त्रयितुं युज्यते । । । उक्तं च। भोजनाछादनं दद्याद् । ऋतुकालं विशेषतः । भूषणाद्यं च नारीणां । न ताभिर् मन्त्रयेत सुधीः ॥४७॥ तथा च । यच स्त्री यच कितवो। बालो यत्र प्रशासिता। हैं तद् गृहं क्षयम आयाति । भार्गवो हीदम अब्रवीत् ॥४॥ . किं च। तावद् एव प्रधानं स्यात् । तावद् गुरुजने रतः । पुरुषो योषितां यावन । न शृणोति रहो वचः ॥४९॥ 12 ___एताः स्वार्थपरा नार्यः । केवलं स्वसुखे रताः। न तासां वल्लभो यस्मात् । स्वसुतो ऽपि सुखं विना ॥५०॥ कौलिक आह । यद्य अप्य एवम । तथापि सा पतिव्रता प्रष्टव्या। 15 एवं तम अभिधाय सत्वरं गत्वा पत्नीम उवाच । भद्रे । अद्यास्माकं कश्चिद् व्यन्तरः सिद्धः । स वाञ्छितं प्रयच्छति । तद् अहं त्वां प्रष्टुम् आगतः । तत् कथय । किम अर्थये । एष तावन 18 मम सुहन नापितः । राज्यं प्रार्थ्यताम् । इति वदति । साब्रवीत्। आर्यपुत्र । का मतिर् नापितानाम् । तन न कार्य तद्वचः । उक्तं 21 हैं चारणैर् वन्दिभिर् नीचैर् । नापितैर् बालकैर् अपि । है न मन्त्रो यतिभिः कार्यः । साध भिक्षुभिर् एव च ॥५१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy