________________
OR, THE BARBER WHO KILLED THE MONKS. Book v. 275 Tale vi: Two-headed weaver.
Tale ii : Four treasure-seekers. अपरम अतिक्लेशपरंपरेषा राज्यस्थितिः संधिविग्रहयानासनसंश्रयवैधीभावादिचिन्ता पुरुषस्य कदाचिद् अपि न सुखं प्रयच्छति। तथा।
यदर्थे भ्रातरः पुत्रा । अपि वाञ्छन्ति ये निजाः।
वधं राज्यकृते राज्ञां । तद् राज्यं दूरतस त्यजेत् ॥५२॥ कौलिक आह । सत्यम् उक्तं भवन्या । तत् कथय । किं याचे ।। साब्रवीत् । त्वं तावद् एकं पटं नित्यम् एव निष्पादयसि । तेन सर्वव्ययशुद्धिः संपद्यते । इदानीम् आत्मनो ऽन्यद् बाहुयुगलं शिरश च याचस्व । येन पुरतः पृष्ठतश चैकैकं पटं संपादयसि । तत्रैकस्य मूल्येन गृहव्ययः शुध्यति । द्वितीयस्य मूल्येन विशेषकत्यानि कुर्वाणस्य जातिमध्ये शाध्यमानस्य कालो गच्छति । सो ऽपि तच छुवा प्रहृष्टः प्राह । साधु । पतिव्रते । साधूक्तं भवत्या । 12 एवं करियामि । इति निश्चयः । अथ कौलिको गत्वा व्यन्तरं प्रार्थयां चक्रे । भोः । यदि वाञ्छितं प्रयच्छसि । तद् देहि मे द्वितीयं बाहुयुगलं शिरश च । एवम अभिहिते तन्क्षणाद् एव 15 हिशिराश चतुर्बाहः संजातः । ततश च प्रहृष्टमना यावद् गृहम आगच्छति । तावल लोकैः । राक्षसो ऽयम । इति मन्यमानैर् लगुडपाषाणादिभिस ताडितो मृतश च ॥ । अतो ऽहं ब्रवीमि । यस्य नास्ति स्वयं प्रज्ञा ' इति । चक्रधरः पुनर् एवाह । सर्वो ऽपि जनो ऽश्रद्धेयकदाशपिचिकायस्तो हास्यपदवीं याति । अथ साध्व् इदम उच्यते । १ अनागतवती चिन्ताम् । असंभाव्यां करोति यः ।
स एव पाण्डुरः शेते । सोमशर्मपिता यथा ॥५३॥ स्वर्णसिद्ध आह । कथम् एतत् । सो ऽब्रवीत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org