________________
Book v. THE FRUITS OF RASHNESS%3B
276
Tale vii: Brahman buildsair-castles.
॥ कथा ७॥ अस्ति कस्मिंश्चिद अधिष्ठाने स्वभावकृपणो नाम ब्राह्मणः । तेन भिक्षार्जितैः सक्नुभिर् भुक्तोद्धरितैः कलश: संपूरितः। तं च कलशं ३ नागदन्ते ऽवलम्ब्य तस्याधस्तात् खदां निधाय सततम् एकदृष्ट्यावलोकयन रात्रौ चिन्तयाम आस । सक्तुभिः परिपूर्णो ऽयं नावद् घटो वर्तते । तद यदि दुर्भिक्षं भविष्यति । तदा रूपकाणां शतम 6 अस्मिन्न् उत्पत्स्यते । ततश च तेनाजाद्वयम् अहं *यहीथे । ततः षण्मासे षण्मासे प्रसववशद् अजायूथं भविष्यति । ततो ऽजाभिर् गावः । गवां प्रसवात् तदपत्यविक्रयं करिष्यामि । ततो गोभिर् महिष्यः । महिषीभिर् वडवाः । वडवाप्रसवतो मम प्रभूता अश्वा भविष्यन्ति । तेषां विक्रयान प्रभूतं सुवर्ण भविष्यति । सुवर्णेन चतुःशालं गृहं संपत्स्यते । ततश च कश्चिन मम गृहम अभ्येत्य 12 प्राप्तवरां रूपाढ्यां कन्यां प्रदास्यति । तस्याः पुत्रो भविष्यति । तस्याहं सोमशर्मा । इति नाम करिथामि । ततस् तस्मिञ् जानुचलनयोग्ये संजाते ऽहं पुस्तकं गृहीत्वाश्वचलस्थापृष्ठदेशे 15 समुपविश्यावधारयिष्यामि । एतस्मिन्न अन्तरे सोमशर्मा मां दृष्ट्वा जनन्या उत्सङ्गाज् जानुप्रचलनपरो ऽश्वानां समीपवर्ती गमिथति । ततो ऽहं ब्राह्मणों कोपाद् अभिधास्यामि । गृह्यतां गृह्यतां 18 बालकः । सापि गृहकर्मव्ययतयास्मवचनं न श्रोष्यति । ततो ऽहं समुत्थाय पादप्रहारेण तां ताडयिथामि । एवं तेन तयानावस्थितेन पादप्रहारस् तथा मुक्तः । यथा घटो भग्नः । घटान्तर्व- 4 तिभिः सतुभिश च पाण्डुरतां गतः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org